Yesam Ragoditah Krsne Sraddha #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ Y
Song Name: Yesam Ragoditah Krsne Sraddha
Official Name: Chapter 10; Krsnapta Jana Caritram
Author: Bhaktivinoda Thakura
Book Name: Krsna Samhita
Language: Sanskrit
LYRICS:
(१)
येषां रागोदितः कृष्णे श्रद्धा वा विमलोदिता
तेषामाचरणं शुद्धं सर्वत्र परिदृश्यते
(२)
अशुद्धाचरणे तेषामश्रद्धा वर्तते स्वतः
प्रपञ्चविषयाद्रागो वैकुण्ठाभिमुखो यतः
(३)
अधिकारविचारेण गुणदोषौ विविच्यते
त्यजन्ति सततं वादान्शुष्कतर्काननात्मकान्
(४)
सम्प्रदायविवादेषु बाह्यलिङ्गादिषु क्वचित्
न द्विषन्ति न सज्जन्ते प्रयोजनपरायणाः
(५)
तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया
स्मृत्वैतन्नियतं कार्यं साधयन्ति मनीषिणः
(६)
जीवने मरणे वापि बुद्धिस्तेषां न मुह्यति
धीरा नम्रस्वभावाश्च सर्वभूतहिते रताः
(७)
आत्मा शुद्धः केवलस्तु मनो जाड्योद्भवं ध्रुवम्
देहं प्रापञ्चिकं शश्वदेतत्तेषां निरूपितम्
(८)
जीवश्चिद्भगवद्दासः प्रीतिधर्मात्मकः सदा
प्राकृते वर्तमानोऽयं भक्तियोगसमन्वितः
(९)
ज्ञात्वैतद्व्रजभावाढ्या वैकुण्ठस्थाः सदात्मनि
भजन्ति सर्वदा कृष्णं सच्चिदानन्दविग्रहम्
(१०)
चित्सत्त्वे प्रेमबाहुल्याल्लिङ्गदेहे मनोमये
मिश्रभावगता सा तु प्रीतिरुत्प्लाविता सती
(११)
प्रीतिकार्यमतो बद्धे मनोमयमितीक्षितम्
पुनस्तद्व्यापितं देहे प्रत्यग्भावसमन्वितम्
(१२)
सारग्राही भजन्कृष्णं योषिद्भावाश्रितेऽत्मनि
वीरवत्कुरुते बाह्ये शारीरं कर्म नित्यशः
(१३)
पुरुषेषु महावीरो योषित्सु पुरुषस्तथा
समाजेषु महाभिज्ञो बालकेषु सुशिक्षकः
(१४)
अर्थशास्त्रविदां श्रेष्ठः परमार्थप्रयोजकः
शान्तिसंस्थापको युद्धे पापिनां चित्तशोधकः
(१५)
बाहुल्यात्प्रेमसम्पत्तेः स कदाचिज्जनप्रियः
अन्तरङ्गं भजत्येव रहस्यं रहसि स्थितः
(१६)
कदाहं श्रीव्रजारण्ये यमुनातटमाश्रितः
भजामि सच्चिदानन्दं सारग्राहिजनान्वितः
(१७)
सारग्राहिवैष्णवानां पदाश्रयः सदास्तु मे
यत्कृपालेशमात्रेण सारग्राही भवेन्नरः
(१८)
वैष्णवाः कोमलश्रद्धा मध्यमाश्चोत्तमास्तथा
ग्रन्थमेतत्समासाद्य मोदन्तां कृष्णप्रीतये
(१९)
परमार्थविचारेऽस्मिन्बाह्यदोषविचारतः
न कदाचिद्धतश्रद्धः सारग्राहिजनो भवेत्
(२०)
अष्टादशशते शाके भद्रके दत्तवंशजः
केदारोऽरचयच्छास्त्रमिदं साधुजनप्रियम्
UPDATED: February 1, 2017