Yah Krsna Caitanya Krpaika Vittas #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ Y
Song Name: Yah Krsna Caitanya Krpaika Vittas
Official Name: Lokanatha Prabhu Varastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
यः कृष्णचैतन्यकृपैकवित्तस्
तत्प्रेमहेमाभरणाढ्यचित्तः
निपत्य भूमौ सततं नमामस्
तं लोकनाथं प्रभुमाश्रयामः
(२)
यो लब्धवृन्दावननित्यवासः
परिस्फुरत्कृष्णविलासरासः
स्वाचारचर्यासतताविरामस्
तं लोकनाथं प्रभुमाश्रयामः
(३)
सदोल्लसद्भागवतानुरक्ता
यः कृष्णराधाश्रवणादिभक्त्या
अयातयामीकृतसर्वयामस्
तं लोकनाथं प्रभुमाश्रयामः
(४)
वृन्दावनाधीशपदाब्जसेवा
स्वादेऽनुमज्जन्ति न हन्त के वा
यस्तेष्वपि श्लाघ्यतमोऽभिरामस्
तं लोकनाथं प्रभुमाश्रयामः
(५)
यः कृष्णलीलारस एव लोकान्
अनुन्मुखान्वीक्ष्य बिभर्ति शोकान्
स्वयं तदास्वादनमात्रकामस्
तं लोकनाथं प्रभुमाश्रयामः
(६)
कृपाबलं यस्य विवेद कश्चित्
नरोत्तमो नाम महान्विपश्चित्
यस्य प्रथीयान्विषयोपरामस्
तं लोकनाथं प्रभुमाश्रयामः
(७)
रागानुगावर्त्मनि यत्प्रसादाद्
विशन्त्यविज्ञा अपि निर्विषादाः
जने कृतागस्यपि यस्त्ववामस्
तं लोकनाथं प्रभुमाश्रयामः
(८)
यद्दासदासानुदासदासा
वयं भवामः फलिताभिलाषाः
यदीयतायां सहसा विशामस्
तं लोकनाथं प्रभुमाश्रयामः
(९)
श्रीलोकनाथाष्टकमत्युदारं
भक्त्या पठेद्यः पुरुषार्थसारम्
स मञ्जुलाली पदवीं प्रपद्य
श्रीराधिकां सेवत एव सद्यः
(१०)
सोऽयं श्रीलोकनाथः स्फुरतु पुरुकृपारश्मिभिः स्वैः समुद्यन्न्
उद्धृत्योद्धृत्य यो नः प्रचुरतमतमः कूपतो दीपिताभिः
दृग्भिः स्वप्रेमवीथ्या दिशमदिशदहो यां श्रिता दिव्यलीला
रत्नाढ्यं विन्दमाना वयमपि निभृतं श्रीलगोवर्धनं स्मः
UPDATED: October 27, 2015