Yadi Te Hari Pada Saroja Sudha #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ Y
Song Name: Yadi Te Hari Pada Saroja Sudha
Official Name: Sri Godruma Candra Bhajanopadesa
Author: Bhaktivinoda Thakura
Book Name: None
Language: Sanskrit
LYRICS:
(१)
यदि ते हरिपादसरोजसुधा
रसपानपरं हृदयं सततम्
परिहृत्य गृहं कलिभावमयं
भज गोद्रुमकाननकुञ्जविधुम्
(२)
धनयौवनजीवनराज्यसुखं
नहि नित्यमनुक्षणनाशपरम्
त्यज ग्राम्यकथासकलं विफलं
भज गोद्रुमकाननकुञ्जविधुम्
(३)
रमणीजनसङ्गसुखं च सखे
चरमे भयदं पुरुषार्थहरम्
हरिनामसुधारसमत्तमतिर्
भज गोद्रुमकाननकुञ्जविधुम्
(४)
जडकाव्यरसो नहि काव्यरसः
कलिपावनगौररसो हि रसः
अलमन्य्कथाद्यनुशीलनया
भज गोद्रुमकाननकुञ्जविधुम्
(५)
वृषभानुसुतान्वितवामतनुं
यमुनातटनागरनन्दसुतम्
मुरलीकलगीतविनोदपरं
भज गोद्रुमकाननकुञ्जविधुम्
(६)
हरिकीर्तनमध्यगतं स्वजनैः
परिवेष्टितजाम्बुनदाभहरिं
निजगौडजनैककृपाजलधिं
भज गोद्रुमकाननकुञ्जविधुम्
(७)
गिरिराजसुतापरिवीतगृहं
नवखण्डपतिं यतिचित्तहरम्
सुरसङ्घनुतं प्रियया सहितं
भज गोद्रुमकाननकुञ्जविधुम्
(८)
कलिकुक्कुरमुद्गरभावधरं
हरिनाममहौषधदानपरम्
पतितार्तदयार्द्रसुमूर्तिधरं
भज गोद्रुमकाननकुञ्जविधुम्
(९)
रिपुबान्धवभेदविहीनदया
यदभीक्ष्णमुदेति मुखाब्जततौ
तमकृष्णमिह व्रजराजसुतं
भज गोद्रुमकाननकुञ्जविधुम्
(१०)
इह चोपनिषत्परिगीतविभुर्
द्विजराजसुतः पुर्टाभहरिः
निजधामनि खेलति बन्धुयुतो
भज गोद्रुमकाननकुञ्जविधुम्
(११)
अवतारवरं परिपूर्णफलं
परतत्त्वमिहात्मविलासमयम्
व्रजधामरसाम्बुधिगुप्तरसं
भज गोद्रुमकाननकुञ्जविधुम्
(१२)
श्रुतिवर्णधनादि न यस्य कृपा
जनने बलवद्भजनेन विना
तमहैतुकभावपथा हि सखे
भज गोद्रुमकाननकुञ्जविधुम्
(१३)
अपि नक्रगतौ ह्रदमध्यगतं
कममोचयदार्तजनं तमजम्
अविचिन्त्यबलं शिवकल्पतरुं
भज गोद्रुमकाननकुञ्जविधुम्
(१४)
सुरभीन्द्रतपःपरितुष्टमनो
वरवर्णधरो हरिराविरभूत्
तमजस्रसुखं मुनिधैर्यहरं
भज गोद्रुमकाननकुञ्जविधुम्
(१५)
अभिलाषचयं तदभेदधियम्
अशुभं च शुभं च त्यज सर्वमिदम्
अनुकूलतया प्रियसेवनया
भज गोद्रुमकाननकुञ्जविधुम्
(१६)
हरिसेवकसेवनधर्मपरो
हरिनामरसामृतपानरतः
नतिदैन्यदयापरमानयुतो
भज गोद्रुमकाननकुञ्जविधुम्
(१७)
वद यादव माधव कृष्ण हरे
वद राम जनार्दन केशव हे
वृषभानुसुताप्रियनाथ सदा
भज गोद्रुमकाननकुञ्जविधुम्
(१८)
वद यामुनतीरवनाद्रिपते
वद गोकुलकाननपुञ्जरवे
वद रासरसायन गौरहरे
भज गोद्रुमकाननकुञ्जविधुम्
(१९)
चल गौरवनं नवखण्डमयं
पठ गौरहरेश्चरिताणि मुदा
लुठ गौरपदाङ्कितगाङ्गतटं
भज गोद्रुमकाननकुञ्जविधुम्
(२०)
स्मर गौरगदाधरकेलिकलां
भव गौरगदाधरपक्षचरः
श्र्णु गौरगदाधरचारुकथां
भज गोद्रुमकाननकुञ्जविधुम्