Skip to main content

Yada Hi Jiva Vijnanam Purnam

·330 words·2 mins
kksongs
Author
kksongs
Un-official KKsongs

Yada Hi Jiva Vijnanam Purnam
#

http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org

Home Song Lyrics Y

Song Name: Yada Hi Jiva Vijnanam Purnam

Official Name: Chapter 4; Krsna Lila Varnanam Part 1

Author: Bhaktivinoda Thakura

Book Name: Krsna Samhita

Language: Sanskrit

LYRICS:

(१)

यदा हि जीवविज्ञानं पूर्णमासीन्महीतले

क्रमोर्ध्वगतिरीत्या च द्वापरे भारते किल

(२)

तदा सत्त्वं विशुद्धं यद्वसुदेव इतीरितः

ब्रह्मज्ञानविभागे हि मथुरायामजायत

(३)

सात्वतां वंशसम्भूतो वसुदेवो मनोमयीम्

देवकीमग्रहीत्कंसनास्तिक्यभगिनीं सतीम्

(४)

भगवद्भावसम्भूतेः शङ्कया भोजपांशुलः

अरुन्धद्दम्पती तत्र कारागारे सुदुर्मदः

(५)

यशःकीर्त्यादयः पुत्राः षडासन्क्रमशस्तयोः

ते सर्वे निहता बाल्ये कंसेनेशविरोधिना

(६)

जीवतत्त्वं विशुद्धं यद्भगवद्दास्यभूषणम्

तदेव भगवान्रामः सप्तमे समजायत

(७)

ज्ञानाश्रयमये चित्ते शुद्धजीवः प्रवर्तते

कंसस्य कार्यमाशङ्क्य स याति व्रजमन्दिरम्

(८)

तथा श्रद्धामये चित्ते रोहिण्यां च विशत्यसौ

देवकीगर्भनाशस्तु ज्ञापितश् चाभवत्तदा

(९)

अष्टमे भगवान्साक्षादैश्वर्याख्यां दधत्तनुम्

प्रादुरासीन्महावीर्यः कंसध्वंसचिकीर्षया

(१०)

व्रजभूमिं तदानीतः स्वरूपेणाभवद्धरिः

सन्धिनीनिर्मिता सा तु विश्वासो भित्तिरेव च

(११)

न ज्ञानं न च वैराग्यं तत्र दृश्यं भवेत्कदा

तत्रैव नन्दगोपः स्यादानन्द इव मूर्तिमान्

(१२)

उल्लासरूपिणी तस्य यशोदा सहधर्मिणी

अजीजनन्महामायां यां शौरिर्नीतवान्व्रजात्

(१३)

क्रमशो वर्धते कृष्णः रामेण सह गोकुले

विशुद्धप्रेमसूर्यस्य प्रशान्तकरसङ्कुले

(१४)

प्रेरिता पूतना तत्र कंसेन बालघातिनी

मातृव्याजस्वरूपा सा ममार कृष्णतेजसा

(१५)

तर्करूपस्तृणावर्तः कृष्णभावान्ममार ह

भारवाहिस्वरूपं तु बभञ्ज शकटं हरिः

(१६)

आननाभ्यन्तरे कृष्णो मात्रे प्रदर्शयन्जगत्

अदर्शयदविद्यां हि चिच्छक्तिरतिपोषिकाम्

(१७)

दृष्ट्वा च बालचापल्यं गोपी सूल्लासरूपिणी

बन्धनाय मनश् चक्रे रज्ज्वा कृष्णस्य सा वृथा

(१८)

न यस्य परिमाणं वै तस्यैव बन्धनं किल

केवलं प्रेमसूत्रेण चकार नन्दगेहिनी

(१९)

बालक्रीडाप्रसङ्गेन कृष्णस्य बन्धछेदनम्

अभवद्वार्क्षभावात्तु निमेषाद्देवपुत्रयोः

(२०)

अनेन दर्शितं साधुसङ्गस्य फलमुत्तमम्

देवोऽपि जडतां याति कुकर्मनिरतो यदि

(२१)

वत्सानां चारणे कृष्णः सखिभिर्याति काननम्

तथा वत्सासुरं हन्ति बालदोषमघं भृशम्

(२२)

तदा तु धर्मकापट्यस्वरूपो बकरूपधृक्

कृष्णेण शुद्धबुद्धेन निहतः कंसपालितः

(२३)

अघोऽपि मर्दितः सर्पो नृशंसत्वस्वरूपकः

यमुनापुलिने कृष्णो बुभुजे सखिभिस्तदा

(२४)

गोपालबालकान्वत्सान्चोरयित्वा चतुर्मुखः

कृष्णस्य मायया मुग्धो बभूव जगतां विधिः

(२५)

अनेन दर्शिता कृष्णमाधुर्ये प्रभुताऽमला

न कृष्णो विधिबाध्यो हि प्रेयान्कृष्णः स्वतश् चिताम्

(२६)

चिदचिद्विश्वनाशोऽपि कृष्णैश्वर्यं न कुण्ठितम्

न कोऽपि कृष्णसामर्थ्यसमुद्रलङ्घने क्षमः

(२७)

स्थूलबुद्धिस्वरूपोऽयं गर्दभो धेनुकासुरः

नष्टोऽभूद्बलदेवेन शुद्धजीवेन दुर्मतिः

(२८)

क्रूरात्मा कालीयः सर्पः सलिलं चिद्द्रवात्मकम्

सन्दुष्य यामुनं पापो हरिणा लाञ्छितो गतः

(२९)

परम्परविवादात्मा दावानलो भयङ्करः

भक्षितो हरिणा साक्षाद्व्रजधामशुभार्थिना

(३०)

प्रलम्बो जीवचौरस्तु शुद्धेन शौरिणा हतः

कंसेन प्रेरितो दुष्टः प्रच्छन्नो बौद्धरूपधृक् 

UPDATED: October 26, 2015