Upasita Padambujas #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ U
Song Name: Upasita Padambujas
Official Name: Volume 1 Tritiya Caitanyastaka
Author: Rupa Goswami
Book Name: Stavamala
Language: Sanskrit
LYRICS:
(१)
उपासितपदाम्बुजस्त्वमनुरक्तरुद्रादिभिः
प्रपद्य पुरुषोत्तमं पदमदभ्रमुद्भ्राजितः
समस्तनतमण्डलीस्फुरदभीष्टकल्पद्रुमं
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम्
(२)
न वर्णयितुमिशते गुरुतरास्वतारायिता
भवन्तमुरुबुद्धयो न खलु सार्वभौमादयः
परो भवतु तत्र कः पटुरतो नमस्ते परं
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम्
(३)
न यत्कथमपि श्रुतावुपनिषद्भिरप्याहितं
स्वयं च विवृतं न यद्गुरुतरावतारान्तरे
क्षिपन्नसि रसाम्बुधे तदिह भक्तिरत्नं क्षितौ
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम्
(४)
निजप्रणयविस्फुरन्नटनरङ्गविस्मापित
त्रिनेत्रनतमण्डलप्रक्टितानुरागामृत
अहङ्कृतिकलङ्कितोद्धतजनादिदुर्बोध हे
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम्
(५)
भवन्ति भुवि ये नराः कलितदुष्कुलोत्पत्तयस्
त्वमुद्धरसि तानपि प्रचुरचारुकारुण्यतः
इति प्रमुदितान्तरः शरणमाश्रितस्त्वामहं
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम्
(६)
मुखाम्बुजपरिस्कलन्मृदुलवाङ्मधूलीरस
प्रसङ्गजनिताखिलप्रणतभृङ्गरङ्गोत्कर
समस्तजनमङ्गलप्रभवनामरत्नाम्बुधे
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम्
(७)
मृगाङ्कमधुरानन स्फुरदनिद्रपद्मेक्षण
स्मितस्तबकसुन्दराधर विशङ्कटोरस्तट
भुजोद्धतभुजङ्गमप्रभ मनोजकोटिद्युते
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम्
(८)
अहं कनककेतुकीकुसुमगौर दुष्टः क्षितौ
न दोषलवदर्शिता विविधदोषपूर्णेऽपि ते
अतः प्रवणया धिया कृपणवत्सल त्वां भजे
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम्
(९)
इदं धरणिमण्डलोत्सव भवत्पदाङ्केषु ये
निविष्टमनसो नराः परिपठन्ति पद्याष्टकम्
शचीहृदयनन्दन प्रकटकीर्तिचन्द्र प्रभो
निजप्रणयनिर्भरं वितर देव तेभ्यः शुभम्
UPDATED: November 8, 2015