Ujjvala Varana #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ U
Song Name: Ujjvala Varana
Official Name: Sacitanayastakam
Author: Sarvabhauma Bhattacarya
Book Name: None
Language: Sanskrit
LYRICS:
(१)
उज्ज्वलवरणगौरवरदेहं
विलसितनिरवधिभावविदेहम्
त्रिभुवनपावनकृपायाः लेशं
तं प्रणमामि च श्रीशचीतनयम्
(२)
गद्गदान्तरभावविकारं
दुर्जनतर्जननादविशालम्
भवभयभञ्जनकारणकरुणं
तं प्रणमामि च श्रीशचीतनयम्
(३)
अरुणाम्बरधर चारुकपोलं
इन्दुविनिन्दितनखचयरुचिरम्
जल्पितनिजगुणनामविनोदं
तं प्रणमामि च श्रीशचीतनयम्
(४)
विगलितनयनकमलजलधारं
भूषणनवरसभावविकारम्
गतिअतिमन्थरनृत्यविलासं
तं प्रणमामि च श्रीशचीतनयम्
(५)
चञ्चलचारुचरणगतिरुचिरं
मञ्जीररञ्जितपदयुगमधुरम्
चन्द्रविनिन्दितशीतलवदनं
तं प्रणमामि च श्रीशचीतनयम्
(६)
धृतकटिडोरकमण्डलुदण्ड
दिव्यकलेवरमुण्डितमुण्डम्
दुर्जनकल्मषखण्डनदण्डं
तं प्रणमामि च श्रीशचीतनयम्
(७)
भूषणभूरजालकावलितं
कम्पितबिम्बाधरवररुचिरम्
मलयजविरचितौज्ज्वलतिलकं
तं प्रणमामि च श्रीशचीतनयम्
(८)
निन्दितारुणकमलदलनयनं
आजानुलम्बितश्रीभुजयुगलम्
कलेवरकैशोरनर्तकवेशं
तं प्रणमामि च श्रीशचीतनयम्
UPDATED: January 20, 2016