Svarupa Bhavato Bhavatv Ayam #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ S
Song Name: Svarupa Bhavato Bhavatv Ayam
Official Name: Mahaprabhorastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
स्वरूप! भवतो भवत्वयमिति स्मितस्निग्धया
गिरैव रघुनाथमुत्पुलकिगात्रमुल्लासयन्
रहस्युपदिशन्निजप्रणयगूढमुद्रां स्वयं
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः
(२)
स्वरूप! मम हृद्व्रणं बत विवेद रूपः कथं
लिलेख यदयं पठ त्वमपि तालपत्रेऽक्षरम्
इति प्रणयवेल्लितं विदधदाशु रूपान्तरं
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः
(३)
स्वरूप! परकीयसत्प्रवरवस्तुनाशेच्छतां
दधज्जन इह त्वया परिचितो न वेतीक्षयम्
सनातनमुदित्य विस्मितमुखं महाविस्मितं
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः
(४)
स्वरूप! हरिनाम यज्जगदघोषयं तेन किं
न वाचयितुमप्यथाशकमिमं शिवानन्दजम्
इति स्वपदलेहनैः शिशुमचीकरन्यः कविं
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः
(५)
स्वरूप! रसरीतिरम्बुजदृशां व्रजे भण्यतां
घनप्रणयमानजा श्रुतियुगं ममोत्कण्ठते
रमा यदिह मानिनी तदपि लोकयेति ब्रुवन्
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः
(६)
स्वरूप! रसमन्दिरं भवसि मन्मुदामास्पदं
त्वमत्र पुरुषोत्तमे व्रजभुवीव मे वर्तसे
इति स्वपरिरम्भणैः पुलकिनं व्यधात्तं च यो
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः
(७)
स्वरूप! किमपीक्षितं क्व नु विभो निशि स्वप्नतः
प्रभो कथय किं नु तन्नवयुवा वराम्भोधरः
व्यधात्किमयमीक्ष्यते किमु न हीत्यगात्तां दशां
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः
(८)
स्वरूप! मम नेत्रयोः पुरत एव कृष्णो हसन्न्
उपैति न करग्रहं बत ददाति हा किं सखे
इति स्खलति धावति श्वसिति घूर्णते यः सदा
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः
(९)
स्वरूपचरितामृतं किल महाप्रभोरष्टकं
रहस्यतममद्भुतं पठति यः कृती प्रत्यहम्
स्वरूपपरिवारतां नयति तं शचीनन्दनो
घनप्रणयमाधुरीं स्वपदयोः समात्वादयन्
UPDATED: January 19, 2017