Svamuddhartum Hare Vetti Kim Rupe #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ S
Song Name: Svamuddhartum Hare Vetti Kim Rupe
Official Name: Haryastakam
Author: Vadiraja Tirtha
Book Name: None
Language: Sanskrit
LYRICS:
(१)
स्वमुद्धर्तुं हरे वेत्ति किम् कूपे पतितः पशुः
क्षिपन्नङ्घ्रिं मुहुर्क्रन्दन् कृपां जनयति प्रभो
(२)
अनिच्छतोऽपि तस्याज्ञस्याङ्गं कुक्षिं च दामभिः
शनैर्निबध्य स्वजनैर्हरे स परमुद्धरेत्
(३)
स हरे लालयेत् पङ्कं क्षालयेत् पालयेत्तृणैः
शमयेदौषधैर्मन्त्रैः स्वगोष्ठस्तस्य वेदनाम्
(४)
तथा नरपशोरीश भवकूपेऽर्दितस्य मे
हरे परिहराशेष क्लेशं केशिघ्न केशव
(५)
मां हि जीवन्मृतं कर्तुं यतन्ते परितः खलाः
तान्निहत्य हरे शीघ्रं सेवायां ते नियुङ्क्ष्व माम्
(६)
कामाद्याऽन्तर शत्रुभ्यो बाह्य शत्रुभ्य एव च
भीतं हरेऽसुराद्भीतं प्रह्लादाह्लाद पाहि माम्
(७)
आधीन्व्याधीनरीन्राज्ञो द्रोहिणोऽन्यांश्च दुर्जनान्
क्षिप्रं नाशय सर्वज्ञ सर्वशक्ते हरे मम
(८)
कलिं खण्डय तद्भृत्यान् दण्डयाशु हरे मम
मनशोधय सत्तत्त्वं बोधयेष्टं प्रसादय
(९)
वादिराजयतिप्रोक्तमेवं हर्यष्टकं नवम्
पठन्नृसिंह कृपया रिपून्संहरति क्षणात्
UPDATED: October 26, 2015