Sva Janmany Aisvaryam Balam #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ S
Song Name: Sva Janmany Aisvaryam Balam
Official Name: Svayam Bhagavattvastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
स्वजन्मन्यैश्वर्यं बलमिह वधे दैत्यविततेर्
यशः पार्थत्राणे यदुपुरि महासम्पदमधात्
परं ज्ञानं जिष्णौ मुषलमनु वैराग्यमनु यो
भगैः षड्भिः पूर्णः स भवतु मुदे नन्दतनयः
(२)
चतुर्बाहुत्वं यः स्वजनि समये यो मृदशने
जगत्कोटीं कुक्ष्यन्तरपरिमितत्वं स्ववपुषः
दधिस्फोटे ब्रह्मण्यतनुत परानन्ततनुतां
महैश्वर्यः पूर्णः स भवतु मुदे नन्दतनयः
(३)
बलं बक्यां दन्तच्छदनवरयोः केशिनि नृगे
निऋपे बाह्वोरङ्घ्रेः फणिनि वपुषः कंसमरुतोः
गिरित्रे दैत्येष्वप्यतनुत निजास्त्रस्य यदतो
महौजोभिः पूर्णः स भवतु मुदे नन्दतनयः
(४)
असङ्ख्यातो गोप्यो व्रजभुवि महिष्यो यदुपुरे
सुताः प्रद्युम्नाद्याः सुरतरुसुधर्मादि च धनम्
बहिर्द्वारि ब्रह्माद्यापि बलिवहं स्तौति यदतः
श्रियां पूरैः पूर्णः स भवतु मुदे नन्दतनयः
(५)
यतो दत्ते मुक्तिं रिपुविततये यन्नरजनिर्
विजेता रुद्रादेरपि नतजनाधीन इति यत्
सभायां द्रौपद्या वरकृदतिपूज्यो नृपमखे
यशोभिस्तत्पूर्णः स भवतु मुदे नन्दतनयः
(६)
न्यधाद्गीतारत्नं त्रिजगदतुलं यत्प्रियसखे
परं तत्त्वं प्रेम्णोद्धवपरमभक्ते च निगमम्
निजप्राणप्रेस्ठास्वपि रसभृतं गोपकुलजास्व्
अतो ज्ञानैः पूर्णः स भवतु मुदे नन्दतनयः
(७)
कृतागस्कं व्याधं सतनुमपि वैकुण्ठमनयन्
ममत्वस्यैकाग्रानपि परिजनान्हन्त विजहौ
यद्यप्येते श्रुत्या धुवतनुतयोक्तास्तदपि हा
स्ववैराग्यैः पूर्णः स भवतु मुदे नन्दतनयः
(८)
अजत्वं जन्मित्वं रतिररतितेहारहितता
सलीलत्वं व्याप्तिः परिमितिरहंताममतयोः
पदे त्यागात्यागावुभयमपि नित्यं सदुररी
करोतीशः पूर्णः स भवतु मुदे नन्दतनयः
(९)
समुद्यत्सन्देहज्वरशतहरं भेषजवरं
जनो यः सेवेत प्रथितभगवत्त्वाष्टकमिदम्
तदैश्वर्यस्वादैः स्वधियमतिवेलं सरसयन्
लभेतासौ तस्य प्रियपरिजनानुग्यपदवीम्
UPDATED: February 6, 2017