Sri Vallabheti Vara Deti #
Krsna Kirtana Songs est.2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ S
Song Name: Sri Vallabheti Vara Deti
Official Name: Mukunda Mala Stotra
Author: Kulasekhara
Book Name: Mukunda Mala Stotra
Language: Sanskrit
LYRICS:
(१)
श्रीवल्लभेति वरदेति दयापरेति
भक्तप्रियेति भवलुण्ठनकोविदेति
नाथेति नागशयनेति जगन्निवासेत्
यालापिनं प्रतिदिनं कुरु मां मुकुन्द
(२)
जयतु जयतु देवो देवकीनन्दनोऽयं
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः
जयतु जयतु मेघश्यामलः कोमलाङ्गो
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः
(३)
मुकुन्द मूर्ध्ना प्रणिपत्य याचे
भवन्तं एकान्तं इयन्तमर्थं
अविस्मृतिस्त्वच्चरणारविन्दे
भवे भवे मेऽस्तु भवत्प्रसादात्
(४)
नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः
कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुं
रम्यारामामृदुतनुलता नन्दने नापि रन्तुं
भावे भावे हृदयभवने भावयेयं भवन्तं
(५)
नास्था धर्मे न वसुनिचये नैव कामोपभोगे
यद् भाव्यं तद्भवतु भगवन्पूर्वकर्मानुरूपं
एतत्प्रार्थ्यं मम बहु मतं जन्मजन्मान्तरेऽपि
त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु
(६)
दिवि वा भुवि वा ममास्तु वासो
नरके वा नरकान्तक प्रकामं
अवधीरितशारदारविन्दौ
चरणौ ते मरणेऽपि चिन्तयामि
(७)
चिन्तयामि हरिं एव सन्ततं
मन्दहासमुदिताननाम्बुजम्
नन्दगोपतनयं परात्परम्
नारदादिमुनिवृन्दवन्दितम्
(८)
करचरणसरोजे कान्तिमन्नेत्रमीने
श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे
हरिसरसि विगाह्यापीय तेजोजलौघं
भवमरुपरिखिन्नः क्लेशमद्य त्यजामि
(९)
सरसिजनयने सशङ्खचक्रे
मुरभिदि मा विरमस्व चित्त रन्तुम्
सुखतरमपरं न जातु जाने
हरिचरणस्मरणामृतेन तुल्यम्
(१०)
माभीर् मन्दमनो विचिन्त्य बहुधा यमीश्वरं यातना
नैवामी प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणम्
लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः
(११)
भवजलधिगतानां द्वन्द्ववाताहतानां
सुतदुहितृकलत्रत्राणभारार्दितानाम्
विषमविषयतोये मज्जतामाप्लवानां
भवति शरणमेको विष्णुपोतो नराणाम्
(१२)
भवजलधिमगाधं दुस्तरं निस्तरेयं
कथमहमिति चेतो मा स्म गाः कातरत्वम्
सरसिजदृशि देवे तारकी भक्तिर् एका
नरकभिदि निषण्णा तारयिष्यत्यवश्यम्
(१३)
तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले
दारावर्ते तनयसहजग्राहसङ्घाकुले च
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्
पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ
(१४)
पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघुस्
तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः
क्षुद्रा रुद्रपितामहप्रभृतयः किटाः समस्ताः सुरा
दृष्टे यत्र स तारको विजयते श्रीपादधूलिकणाः
(१५)
हे लोकाः श्रीनुत प्रसुतिमरनव्यधेस्चिकित्सं इमम्
योगज्ञः समुदहरन्ति मुनयो यं यज्ञवल्क्यदयह्
अन्तर्ज्योतिरमेयं एकममृतं कृष्णख्यमपियतम्
तत् पितं परमौषधं वितनुते निर्वनमत्यन्तिकम्
(१६)
हे मर्त्याः परमं हितं श्रीनुत वो वक्ष्यमि सङ्क्षेपतः
संसारर्नवमपदुर्मिबहुलं सम्यक्प्रविस्य स्थितः
ननज्ञनमपस्य चेतसि नमो नारायणयेत्यमुम्
मन्त्रं सप्रनवं प्रनमसहितं प्रवर्तयध्वं मुहुः
(१७)
नाथे नः पुरुषोत्तमे त्रिजगताम् एकाधिपे चेतसा
सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति
यं कञ्चित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं
सेवायै मृगयामहे नरमहो मूढा वराका वयम्
(१८)
बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम्
अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम्
(१९)
यत् कृष्णप्रणिपातधूलिधवलं तद्वर्ष्म तद् वै शिरस्
ते नेत्रे तमसोज्झिते सुरुचिरे याभ्यां हरिर् दृश्यते
सा बुद्धिर्विमलेन्दुशङ्खधवला या माधवध्यायिनी
सा जिःवामृतवर्षिणी प्रतिपदं या स्तौति नारायणम्
(२०)
जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरम्
पाणिद्वन्द्वसमर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु
कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयम्
जिघ्र घ्राण मुकुन्दपदतुलसीं मूर्धन्नमाधोक्षजम्
(२१)
आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहम्
मेदस्छेदफलानि पूर्तविधयः सर्वं हुतं भस्मनि
तीर्थानाम् अवगाहनानि च गजस्नानं विना यत्पद
द्वन्द्वाम्भोरुहसंस्मृतिं विजयते देवः स नारायणह्
(२२)
मदन परिहर स्थितिं मदीये
मनसि मुकुन्दपदारविन्दधाम्नि
हरनयनकृशानुना कृशोऽसि
स्मरसि न चक्रपराक्रमं मुरारेः
(२३)
नाथे धातरि भोगिभोगशयने नारायणे माधवे
देवे देवकिनन्दने सुरवरे चक्रायुधे शार्ङ्गिणि
लीलाशेषजगत्प्रपञ्चजठरे विश्वेश्वरे श्रीधरे
गोविन्दे कुरु चित्तवृत्तिमचलमन्यैस्तु किं वर्तनैः
(२४)
मा द्राक्षं क्षीणपुण्यान् क्षणमपि भवतो भक्तिहीनान् पदाब्जे
मा श्रौषं श्राव्यबन्धं तव चरितमपास्यान्यदाख्यानजातम्
मा स्मार्षं माधव त्वामपि भुवनपते चेतसापह्नुवानान्
मा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरेऽपि
(२५)
मज्जन्मनः फलं इदं मधुकैतभारे
मत्प्रार्थनीयमदनुग्रह एष एव
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य
भृत्यस्य भृत्य इति मां स्मर लोकनाथ
(२६)
तत्त्वं ब्रुवाणानि परं परस्तान्
मधु क्षरन्तीव मुदावहानि
प्रवर्तय प्राञ्जलिरस्मि जिह्वे
नामानि नारायणगोचराणि
(२७)
नमामि नारायणपादपङ्कजं
करोमि नारायणपूजनं सदा
वदामि नारायणनाम निर्मलं
स्मरामि नारायणतत्त्वमव्ययम्
(२८)
श्रीनाथ नारायण वासुदेव
श्रीकृष्ण भक्तप्रिय चक्रपाणे
श्रीपद्मनाभाच्युत कैतभारे
श्रीराम पद्माक्ष हरे मुरारे
(२९)
अनन्त वैकुण्ठ मुकुन्द कृष्ण
गोविन्द दामोदर माधवेति
वक्तुं समर्थोऽपि न वक्ति कश्चिद्
अहो जनानां व्यसनाभिमुख्यम्
(३०)
भक्तापायभुजङ्गगारुडमणिस् त्रैलोक्यरक्षामणिर्
गोपीलोचनचाटकाम्बुदमणिः सौन्दर्यमुद्रामणिः
यः कान्तमणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः
श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः
(३१)
शत्रुच्छेदैकमन्त्रं सकलं उपनिषद्वाक्यसम्पूज्यमन्त्रं
संसारोच्छेदमन्त्रं समुचिततमसः सङ्घनिर्याणमन्त्रम्
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं
जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम्
(३२)
व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं
दैत्येन्द्रार्तिकरौषधं त्रिभुवने सञ्जीवनैकौषधम्
भक्तात्यन्तहितौषधं भवभयप्रध्वम्सनैकौषधं
श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम्
(३३)
कृष्ण त्वदीयपदपङ्कजपञ्जरान्तम्
अद्यैव मे विशतु मानसराजहंसः
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते
(३४)
चेतस्चिन्तय कीर्तयस्व रसने नम्रीभव त्वं सिरो
हस्तावञ्जलिसम्पुटं रचयतं वन्दस्व दीर्घं वपुः
आत्मन्संश्रय पुण्डरीकनयनं नागाचलेन्द्रस्थितं
धन्यं पुण्यतमं तदेव परमं दैवं हि सत्सिद्धये
(३५)
शृण्वन् जनार्दनकथागुणकीर्तनानि
देहे न यस्य पुलकोद्गमरोमराजिः
नोत्पद्यते नयनयोर्विमलाम्बुमाला
धिक्तस्य जीवितमहो पुरुषाधमस्य
(३६)
अन्धस्य मे हृतविवेकमहाधनस्य
चौरैः प्रभो बलिभिरिन्द्रियनामधेयैः
मोहान्धकूपकुहरे विनिपातितस्य
देवेश देहि कृपाणस्य करावलम्बम्
(३७)
इदं शरीरं शतसन्धिजर्जरं
पतत्यवश्यं परिणामपेशलं
किमौषधं पृच्छसि मूढ दुर्मते
निरामयं कृष्णरसायणं पिब
(३८)
आश्चर्यमेतद्धि मनुष्यलोके
सुधां परित्यज्य विषं पिबन्ति
नामानि नारायणगोचराणि
त्यक्त्वान्यवाचः कुहकः पठन्ति
(३९)
त्यजन्तु बान्धवाः सर्वे
निन्दन्तु गुरवो जनाः
तथापि परमानन्दो
गोविन्दो मम जीवनम्
(४०)
सत्यं ब्रवीमि मनुजाः स्वयं ऊर्ध्वबाहुर्
यो यो मुकुन्द नरसिंह जनार्दनेति
जीवो जपत्यनुदिनं मरणे रणे वा
पाषाणकाष्ठसदृशाय ददात्यभीष्टम्
(४१)
नारायणाय नम इत्यमुं एव मन्त्रं
संसारघोरविषनिर्हरणाय नित्यम्
शृण्वन्तु भव्यमतयो यतयोऽनुरागाद्
उच्चैस्तरं उपदिशाम्यहं ऊर्ध्वबाहुह्
(४२)
चित्तं नैव निवर्तते क्षणमपि श्रीकृष्णपादाम्बुजान्
निन्दन्तु प्रियबान्धवा गुरुजना गृःनन्तु मुञ्चन्तु वा
दुर्वादं परिघोषयन्तु मनुजा वंशे कलङ्केऽस्तु वा
तादृक्प्रेमधरानुरागमधुना मत्ताय मानं तु मे
(४३)
कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णो हि विश्वम्भरः
कृष्णादेव समुत्थितं जगदिदं कृष्णे लयं गच्छति
कृष्णे तिष्ठति विश्वं एतदखिलं कृष्णस्य दासा वयं
कृष्णेनाखिलसद्गतिर्वितरिता कृष्णाय तस्मै नमः
(४४)
हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना
(४५)
दारावाराकरवरसुता ते तनूजो विरिञ्चिः
स्तोता वेदस्तव सुरगणा भृत्यवर्गः प्रसादः
मुक्तिर्माया जगदविकलं तावकी देवकी ते
माता मित्रं बलरिपुसुतस्तत्त्वदन्यं न जाने
(४६)
प्रणाममीशस्य शिरःफलं विदुस्
तदर्चनं पाणिफलं दिवौकसः
मनःफलं तद्गुणतत्त्वचिन्तनं
वचःफलं तद्गुणकीर्तनं बुधाः
(४७)
श्रीमन्नाम प्रोच्य नारायणाख्यं
के न प्रापुर्वाञ्छितं पापिनोऽपि
हा नः पूर्वं वाक्प्रवृत्ता न तस्मिंस्
तेन प्राप्तं गर्भवासादिदुःखम्
(४८)
ध्यायन्ति ये विष्णुमनन्तमव्ययम्
हृत्पद्ममध्ये सततं व्यवस्थितम्
समाहितानां सतताभयप्रदं
ते यान्ति सिद्धिं परमां तु वैष्णवीम्
(४९)
तत्त्वं प्रसीद भगवन् कुरु मय्यनाथे
विष्णो कृपां परमकारुणिकः खलु त्वम्
संसारसागरनिमग्नमनन्त दीनम्
उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि
(५०)
क्षीरसागरतरङ्गशीकरा
सारतारकितचारुमूर्तये
भोगिभोगशयनीयशायिने
माधवाय मधुविद्विषे नमः
(५१)
अलमलमलमेका प्राणिनां पातकानां
निरसनविषये या कृष्ण कृष्णेति वाणी
यदि भवति मुकुन्दे भक्तिरानन्दसान्द्रा
करतलकलिता सा मोक्षसम्राज्यलक्ष्मीः
(५२)
यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ
मित्रौ द्विजन्मवरपद्मशरावभूताम्
तेनाम्बुजाक्षचरणाम्बुजषट्पदेन
राज्ञा कृता कृतिरियं कुलशेखरेण
(५३)
मुकुन्दमालां पठतां नराणाम्
अशेषसौख्यं लभते न कः स्वित्
समस्तपापक्षयमेत्य देही
प्रयाति विष्णोः परमं पदं तत्
वन्दे मुकुन्दम् अरविन्ददलायताक्षं
कुन्देन्दुशङ्खदशनं शिशुगोपवेशम्
इन्द्रादिदेवगणवन्दितपादपीठं
वृन्दावनालयमहं वसुदेवसूनुम्
श्रीगोविन्दपदाम्भोजमधुनो महदद्भुतम्
यत्पायिनो न मुह्यन्ति मुह्यन्ति यदपायिनः
रजसि निपतितानां मोहजालावृतानां
जननमरणदोलादुर्गसंसर्गगानाम्
शरणमशरणानामेक एवातुराणां
कुशलपथनियुक्तश्चक्रपाणिर्नराणाम्
अपराधसहस्रसङ्कुलं
पतितं भीमभवार्णवोदरे
अगतिं शरणागतं हरे
कृपया केवलमात्मसात्कुरु
मा मे स्त्रीत्वं मा च मे स्यात्कुभावो
मा मूर्खत्वं मा कुदेशेषु जन्म
मिथ्यादृष्टिर्मा च मे स्यात्कदाचित्
जातौ जातौ विष्णुभक्तो भवेयम्
कायेन वाचा मनसेन्द्रियैश्च
बुद्ध्यात्मना वानुसृतिर्स्वभावात्
करोमि यद्यत्सकलं परस्मै
नारायणायैव समर्पयामि
यत्कृतं यत्करिष्यामि
तत्सर्वं न मया कृतम्
तव्या कृतं तु फलभुक्
त्वमेव मधुसूदन
UPDATED: September 15, 2015