Skip to main content

Sri Krsna Tattva Nirdese Krpa

·357 words·2 mins
kksongs
Author
kksongs
Un-official KKsongs

Sri Krsna Tattva Nirdese Krpa
#

http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org

Home Song Lyrics S

Song Name: Sri Krsna Tattva Nirdese Krpa

Official Name: Chapter 1; Vaikuntha Varnanam

Author: Bhaktivinoda Thakura

Book Name: Krsna Samhita

Language: Sanskrit

LYRICS:

(१)

श्रीकृष्णतत्त्वनिर्देशे कृपा यस्य प्रयोजनम्

वन्दे तं ज्ञानदं कृष्णचैतन्यं रसविग्रहम्

(२)

समुद्रशोषणं रेणोर्यथा न घटते क्वचित्

तथा मे तत्त्वनिर्देशो मूढस्य क्षुद्रचेतसः

(३)

किन्तु मे हृदये कोऽपि पुरुषः श्यामसुन्दरः

स्फुरन्समादिशत्कार्यमेतत्तत्त्वनिरूपणम्

(४)

आसीदेकः परः कृष्णो नित्यलीलापरायणः

चिच्छक्त्याविष्कृते धाम्नि नित्यसिद्धगणाश्रिते

(५)

चिद्विलासरसे मत्तश्चिद्गणैरन्वितः सदा

चिद्विशेषान्विते भावे प्रसक्तः प्रियदर्शनः

(६)

जीवानां नित्यसिद्धानां स्वाधीनप्रेमलालसः

प्रादात्तेभ्यः स्वतन्त्रत्वं कार्याकार्यविचारणे

(७)

येषां तु भगवद्दास्ये रुचिरासीद्बलीयसी

स्वाधीनभावसम्पन्नास्ते दासा नित्यधामनि

(८)

ऐश्वर्यकर्षिता एके नारायणपरायणाः

माधुर्यमोहिताश्चान्ये कृष्णदासाः सुनिर्मलाः

(९)

सम्भ्रमाद्दास्यबोधे हि प्रीतिस्तु प्रेमरूपिणी

न तत्र प्रणयः कश्चित्विश्रम्भे रहिते सति

(१०)

माधुर्यभावसम्पत्तौ विश्रम्भो बलवान्सदा

महाभावावधिः प्रीतेर्भक्तानां हृदये ध्रुवम्

(११)

जीवस्य नित्यसिद्धस्य सर्वमेतदनामयम्

विकाराश्चिद्गताः शश्वत्कदापि नो जडान्वितः

(१२)

वैकुण्ठे शुद्धचिद्धाम्नि विलासा निर्विकारकाः

आनन्दाब्धितरङ्गास्ते सदा दोषविवर्जिताः

(१३)

यमैश्वर्यपरा जीवा नारायणं वदन्ति हि

माधुर्यरससम्पन्नाः कृष्णमेव भजन्ति तम्

(१४)

रसभेदवशादेको द्विधा भाति स्वरूपतः

अद्वयः स परः कृष्णो विलासानन्दचन्द्रमाः

(१५)

आधेयाधारभेदश्च देहदेहिविभिन्नता

धर्मधर्मिपृथग्भावा न सन्ति नित्यवस्तुनि

(१६)

विशेष एव धर्मोऽसौ यतो भेदः प्रवर्तते

तद्भेदवशतः प्रीतिस्तरङ्गरूपिणी सदा

(१७)

प्रपञ्चमलतोऽस्माकं बुद्धिर्दुष्टास्ति केवलम्

विशेषो निर्मलस्तस्मान्न चेह भासतेऽधुना

(१८)

भगवज्जीवयोस्तत्र सम्बन्धो विद्यतेऽमलः

स तु पञ्चविधः प्रोक्तो यथात्र संसृतौ स्वतः

(१९)

शान्तभावस्तथा दास्यं सख्यं वात्सल्यमेव च

कान्तभाव इति ज्ञेयाः सम्बन्धाः कृष्णजीवयोः

(२०)

भावाकारगता प्रीतिः सम्बन्धे वर्ततेऽमला

अष्टरूपा क्रियासारा जीवानामधिकारतः

(२१)

शान्ते तु रतिरूपा सा चित्तोल्लासविधायिनी

रतिः प्रेमा द्विधा दास्ये ममताभावसङ्गता

(२२)

सख्ये रतिस्तथा प्रेमा प्रणयोऽपि विचार्यते

विश्वासो बलवान्तत्र न भयं वर्तते क्वचित्

(२३)

वात्सल्ये स्नेहपर्यन्ता प्रीतिर्द्रवमयी सती

कान्तभावे च तत्सर्वं मिलितं वर्तते किल

मानरागानुरागैश्च महाभावैर्विशेषतः

(२४)

वैकुण्ठे भगवान्श्यामः गृहस्थः कुलपालकः

यथात्र लक्ष्यते जीवः स्वगणैः परिवेष्टितः

(२५)

शान्ता दासाः सखाश्चैव पितरो योषितस्तथा

सर्वे ते सेवका ज्ञेयाः सेव्यः कृष्णः प्रियः सताम्

(२६)

सार्वज्ञ्यधृतिसामर्थ्यविचारपटुताक्षमाः

प्रीतावेकात्मतां प्राप्ता वैकुण्ठेऽद्वयवस्तुनि

(२७)

चिद्द्रवात्मा सदा तत्र कालिन्दी विरजा नदी

चिदाधारस्वरूपा सा भूमिस्तत्र विराजते

(२८)

लताकुञ्जगृहद्वारप्रासादतोरणानि च

सर्वाणि चिद्विशिष्टानि वैकुण्ठे दोषवर्जिते

(२९)

चिच्छक्तिनिर्मितं सर्वं यद्वैकुण्ठे सनातनम्

प्रतिभातं प्रपञ्चेऽस्मिन्जडरूपमलान्वितम्

(३०)

सद्भावेऽपि विशेषस्य सर्वं तन्नित्यधामनि

अखण्डसच्चिदानन्दस्वरूपं प्रकृतेः परम्

(३१)

जीवानां सिद्धसत्त्वानां नित्यसिद्धिमतामपि

एतन्नित्यसुखं शश्वत्कृष्णदास्ये नियोजितम्

(३२)

वाक्यानां जडजन्यत्वान्न शक्ता मे सरस्वती

वर्णने विमलानन्दविलासस्य चिदात्मनः

(३३)

तथापि सारजुट्वृत्त्या समाधिमवलम्ब्य वै

वर्णिता भगवद्वार्ता मया बोध्या समाधिना

(३४)

यस्येह वर्तते प्रीतिः कृष्णे व्रजविलासिनि

तस्यैवात्मसमाधौ तु वैकुण्ठो लक्ष्यते स्वतः

UPDATED: February 1, 2017