Sri Krsna Namamrta Varsi Vaktra #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ S
Song Name: Sri Krsna Namamrta Varsi Vaktra
Official Name: Narottama Prabhorastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
श्रीकृष्णनामामृतवर्षिवक्त्र
चन्द्रप्रभाध्वस्ततमोभराय
गौराङ्गदेवानुचराय तस्मै
नमो नमः श्रीलनरोत्तमाय
(२)
सङ्कीर्तनानन्दजमन्दहास्य
दन्तद्युतिद्योतितदिङ्मुखाय
स्वेदाश्रुधारास्नपिताय तस्मै
नमो नमः श्रीलनरोत्तमाय
(३)
मृदङ्गनादश्रुतिमात्रचञ्चत्
पदाम्बुजामन्दमनोहराय
सद्यः समुद्यत्पुलकाय तस्मै
नमो नमः श्रीलनरोत्तमाय
(४)
गन्धर्वगर्वक्षपणस्वलास्य
विस्मापिताशेषकृतिव्रजाय
स्वसृष्टगानप्रथिताय तस्मै
नमो नमः श्रीलनरोत्तमाय
(५)
आनन्दमूर्च्छावनिपात्भात
धूलीभरालङ्कृतविग्रहाय
यद्दर्शनं भाग्यभरेण तस्मै
नमो नमः श्रीलनरोत्तमाय
(६)
स्थले स्थले यस्य कृपाप्रपाभिः
कृष्णान्यतृष्णा जनसंहतीनाम्
निर्मूलिता एव भवन्ति तस्मै
नमो नमः श्रीलनरोत्तमाय
(७)
यद्भक्तिनिष्ठा पलरेखिकेव
स्पर्शः पुनः स्पर्शमणीव यस्य
प्रामाण्यमेवं श्रुतिवद्यदीयं
तस्मै नमः श्रीलनरोत्तमाय
(८)
मूर्तैव भक्तिः किमयं किमेष
वैराग्यसारस्तनुमान्नृलोके
सम्भाव्यते यः कृतिभिः सदैव
तस्मै नमः श्रीलनरोत्तमाय
(९)
श्री राधिका कृष्ण विलास सिन्धौ
निमज्जतः श्रील नरोत्तमस्य
पठेद्य एवाष्टकमेतदुच्चैह्
असौ तादीयं पदवीं प्रयाति
(१०)
कारुण्य दृष्टि शमिताश्रित मन्तुकोटि
रम्याअधरोद्यदति सुन्दर दन्त कान्तिः
श्रीमन् नरोत्तम मुखाम्बुज मन्धास्यं
लास्यं तनोतु हृदि मे वितरत् स्वदास्यम्
(११)
राजन्मृदङ्गकरतालकलाभिरामं
गौराङ्गगानमधुपानभराभिरामम्
श्रीमन्नरोत्तमपदाम्बुजमञ्जुनृत्यं
भृत्यं कृतार्थयतु मां फलितेष्टकृत्यम्
UPDATED: January 10, 2017