Samsara Davanala Lidha Loka (Sri Gurvastakam) #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ S
Song Name: Samsara Davanala Lidha Loka
Official Name: Sri Guru Devastakam; Sri Gurvastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
संसारदावानललीढलोक-
त्राणाय कारुण्यघनाघनत्वम्
प्राप्तस्य कल्याणगुणार्णवस्य
वन्दे गुरोः श्रीचरणारविन्दम्
(२)
महाप्रभोः कीर्तननृत्यगीत-
वादित्रमद्यन्मनसो रसेन
रोमाञ्चकम्पाश्रुतरङ्गभाजो
वन्दे गुरोः श्रीचरणारविन्दम्
(३)
श्रीविग्रहाराधननित्यनाना-
शृङ्गारतन्मन्दिरमार्जनादौ
युक्तस्य भक्तांश्च नियुञ्जतोऽपि
वन्दे गुरोः श्रीचरणारविन्दम्
(४)
चतुर्विधश्रीभगवत्प्रसाद-
स्वाद्वन्नतृप्तान्हरिभक्तसङ्घान्
कृत्वैव तृप्तिं भजतः सदैव
वन्दे गुरोः श्रीचरणारविन्दम्
(५)
श्रीराधिकामाधवयोरपार-
माधुर्यलीलागुणरूपनाम्नाम्
प्रतिक्षणास्वादनलोलुपस्य
वन्दे गुरोः श्रीचरणारविन्दम्
(६)
निकुञ्जयूनो रतिकेलिसिद्ध्यै
या यालिभिर्युक्तिरपेक्षणीया
तत्रातिदाक्ष्यादतिवल्लभस्य
वन्दे गुरोः श्रीचरणारविन्दम्
(७)
साक्षाद्धरित्वेन समस्तशास्त्रैर्
उक्तस्तथा भाव्यत एव सद्भिः
किन्तो प्रभोर्यः प्रिय एव तस्य
वन्दे गुरोः श्रीचरणारविन्दम्
(८)
यस्य प्रसादाद्भगवत्प्रसादो
यस्याप्रसादान्न गतिः कुतोऽपि
ध्यायन्स्तुवंस्तस्य यशस्त्रिसन्ध्यं
वन्दे गुरोः श्रीचरणारविन्दम्
(९)
श्रीमद्गुरोरष्टकमेतदुच्चैर्
ब्राह्मे मुहूर्ते पठति प्रयत्नात्
यस्तेन वृन्दावननाथ साक्षात्
सेवैव लभ्या जनुशोऽन्त एव
UPDATED: January 7, 2017