Saksan Mahattama Maha Ghana Cid Vilasa #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ S
Song Name: Saksan Mahattama Maha Ghana Cid Vilasa
Official Name: Nandisvarastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
साक्षान्महत्तममहाघनचिद्विलास
पुञ्जः स्वयं शिखरिशेखरतामुपेतः
यत्रेश्वरः स खलु नन्दति येन वेति
नन्दीश्वरः स मदमन्दमुदं दधातु
(२)
ब्रह्माण्डवप्रगतलोकनिकायशस्य
सन्तर्पि कृष्णचरितामृतनिर्झराढ्यः
पर्जन्यसन्ततिसुखास्पदपूर्वको यो
नन्दीश्वरः स मदमन्दमुदं दधातु
(३)
यत्सौभगं भगवता धरणीभृतापि
न प्राप्यते सुरगिरिः स हि को वराकः
नन्दः स्वयं वसति यत्र सपुत्रदारो
नन्दीश्वरः स मदमन्दमुदं दधातु
(४)
यत्र व्रजाधिपपुराप्रतिमप्रकाश
प्रासादमूर्धकलशोपरिनृत्यरङ्गी
बर्हीक्ष्यते भुवि जयध्वजकेतुभूतो
नन्दीश्वरः स मदमन्दमुदं दधातु
(५)
यच्छृङ्गसङ्गतसुगन्धशिलाधिरूढः
कृष्णः सतृष्णनयनः परितो व्रजाब्जम्
आलोक्यते द्विषडुदारदालाटवीस्ता
नन्दीश्वरः स मदमन्दमुदं दधातु
(६)
जिग्ये यदीयतटराजिसरोजराजि
सौरभ्यमञ्जुलसरोजलशीकरेण
त्रैलोक्यवर्तिवरतीर्थयशो रसौघैर्
नन्दीश्वरः स मदमन्दमुदं दधातु
(७)
यत्तीरसङ्गिपवनैरभिमृश्यमानाः
स्युः पावना अपि जनाः स्वदशां परेषाम्
सा पावनाख्यसरसी यदुपत्यकायां
नन्दीश्वरः स मदमन्दमुदं दधातु
(८)
कृष्णाख्यमस्ति महदुज्ज्वलनीलरत्नं
सूते तदेव वसु तत्स्वभुवैव दृष्टम्
तल्लभ्यते सुकृतिनैव यदीयसानौ
नन्दीश्वरः स मदमन्दमुदं दधातु
(९)
दुर्वासनाशतवृतोऽपि भवत्प्रयत्नः
पद्याष्टकं पठति यः शिखरीश तुभ्यम्
कृष्णाङ्घ्रिपद्यरस एव सदा सतृष्णम्
एतं जनं कुरु गुरुप्रणयं दधानम्
UPDATED: February 6, 2017