Rasa Valita Mrgaksi Mauli #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ R
Song Name: Rasa Valita Mrgaksi Mauli
Official Name: Radhikastakam
Author: Raghunatha Dasa Goswami
Book Name: Stavavali
Language: Sanskrit
LYRICS:
(१)
रसवलितमृगाक्षीमौलिमाणिक्यलक्ष्मीः
प्रमुदितमुरवैरिप्रेमवापिमराली
व्रजवरवृषभानोः पुण्यगिर्वाणवल्ली
स्नपयतु निजदास्ये राधिका मां कदा नु
(२)
स्फुरदरुणदुकूलद्योतितोद्यन्नितम्ब
स्थलमभि वरकाञ्चीलास्यमुल्लासयन्ती
कुचकलसविलासस्फीतमुक्तासरश्रीः
स्नपयतु निजदास्ये राधिका मां कदा नु
(३)
सरसिजवरगर्भाखर्वकान्तिः समुद्यत्
तरुणिमघनसाराश्लिष्टकैशोरसीधुः
दरविकसितहास्यस्यन्दिबिम्बाधराग्रा
स्नपयतु निजदास्ये राधिका मां कदा नु
(४)
अतिचटुलतरं तं काननान्तर्मिलन्तं
व्रजनृपतिकुमारं वीक्ष्य शङ्काकुलाक्षी
मधुरमृदुवचोभिः संस्तुता नेत्रभङ्ग्या
स्नपयतु निजदास्ये राधिका मां कदा नु
(५)
व्रजकुलमहिलानां प्रानभूताखिलानां
पशुपपतिगृहिण्याः कृष्णवत्प्रेमपात्रम्
सुललितललितान्तःस्नेहफुल्लान्तरात्मा
स्नपयतु निजदास्ये राधिका मां कदा नु
(६)
निरवधि सविशाखा शाखियूथप्रसूनैः
स्रजमिह रचयन्ती वैजयन्तीं वनान्ते
अघविजयवरोरःप्रेयसी श्रेयसी सा
स्नपयतु निजदास्ये राधिका मां कदा नु
(७)
प्रकटितनिजवासं स्निग्धवेणुप्रणादैर्
द्रुतगतिहरिमारात्प्राप्य कुञ्जे स्मिताक्षी
श्रवणकुहरकण्डूं तन्वती नम्रवक्त्रा
स्नपयतु निजदास्ये राधिका मां कदा नु
(८)
अमलकमलराजिस्पर्शवातप्रशीते
निजसरसि निदाघे सायमुल्लासिनीयम्
परिजनगणयुक्ता क्रीडयन्ती बकारिं
स्नपयतु निजदास्ये राधिका मां कदा नु
(९)
पठति विमलचेता मिष्टराधाष्टकं यः
परिहृतनिखिलाशासन्ततिः कातरः सन्
पशुपपतिकुमारः काममामोदितस्तं
निजजनगणमध्ये राधिकायास्तनोति
UPDATED: August 29, 2017