Rajat Kirita Mani Didhiti #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ R
Song Name: Rajat Kirita Mani Didhiti
Official Name: Ramastakam
Author: Murari Gupta
Book Name: Krsna Caitanya Carita
Language: Sanskrit
LYRICS:
(१)
राजत्किरीटमणिदीधितिदीपितांशम्
उद्यद्बृहस्पतिकविप्रतिमे वहन्तम्
द्वे कुण्डलेऽङ्करहितेन्दुसमानवक्त्रं
रामं जगत्त्रयगुरुं सततं भजामि
(२)
उद्यद्विभाकरमरीचिविबोधिताब्ज
नेत्रं सुबिम्बदशनच्छदचारुनासम्
शुभ्रांशुरश्मिपरिनिर्जितचारुहासं
रामं जगत्त्रयगुरुं सततं भजामि
(३)
तं कम्बुकण्ठमजमम्बुजतुल्यरूपं
मुक्तावलीकनकहारधृतं विभान्तम्
विद्युद्वलाकगणसंयुतमम्बुदं वा
रामं जगत्त्रयगुरुं सततं भजामि
(४)
उत्तानहस्ततलसंस्थसहस्रपत्रं
पञ्चच्छदाधिकशतं प्रवराङ्गुलीभिः
कुर्वत्यशीतकनकद्युति यस्य सीता
पार्श्वेऽस्ति तं रघुवरं सततं भजामि
(५)
अग्रे धनुर्धरवरः कनकोज्ज्वलाङ्गो
ज्येष्ठानुसेवनरतो वरभूषणाढ्यः
शेषाख्यधामवरलक्ष्मणनाम यस्य
रामं जगत्त्रयगुरुं सततं भजामि
(६)
यो राघवेन्द्रकुलसिन्धुसुधांशुरूपो
मारीचराक्षससुबाहुमुखान्निहत्य
यज्ञं ररक्ष कुशिकान्वयपुण्यराशिं
रामं जगत्त्रयगुरुं सततं भजामि
(७)
हत्वा खरत्रिशिरसौ सगणौ कबन्धं
श्रीदण्डकाननमदूषणमेव कृत्वा
सुग्रीवमैत्रमकरोद्विनिहत्य शत्रुं
तं राघव दशमुखान्तकरं भजामि
(८)
भङ्क्त्वा पिनाकमकरोज्जनकात्मजाया
वैवाहिकोत्सवविधिं पथि भार्गवेन्द्रम्
जित्वा पितुर्मुदमुवाह ककुत्स्थवर्यं
रामं जगत्त्रयगुरुं सततं भजामि
UPDATED: July 24, 2016