Raghavam Karunakaram Muni Sevitam #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ R
Song Name: Raghavam Karunakaram Muni Sevitam
Official Name: Raghavastakam
Author: Anonymous
Book Name: None
Language: Sanskrit
(१)
राघवं करुणाकरं मुनिसेवितं सुरवन्दितं
जानकीवदनारविन्ददिवारकं गुणभाजनम्
वालिसूनुहितैषिनं हनुमत्प्रियं कमलेक्षणं
यातुधानभयङ्करं प्रणमामि राघवकुञ्जरम्
(२)
मैथिलीकुचभूषणामलनीलमौक्तिकमीश्वरं
रावणनुजपालनं रघुपुङ्गवं मम दैवतम्
नागरीवनिताननाम्बुज बोधनीयकलेवरं
सूर्यवंशविवर्धनं प्रणमामि राघवकुञ्जरम्
(३)
हेमकुण्डलमिण्डतालमल कण्ठ देशमरिन्दमं
शान्तकुम्भमयूरनेत्रविभूषणेन विभूषितम्
चारुनूपुरहारकौस्तुभकर्णभूषणभूषितं
भानुवंशविवर्धनं प्रणमामि राघवकुञ्जरम्
(४)
दण्डकाख्यवने रतामरसिद्धयोगिगणश्रयं
शिष्टपालन्तत्परं धृतिशालिपार्थकृतस्तुतिम्
कुम्भकर्णभुजाभुजङ्गविकर्तने सुविशारदं
लक्ष्मणानुजवत्सलं प्रणमामि राघवकुञ्जरम्
(५)
केतकीकरवीरजातिसुगन्धिमाल्यसुशोभितं
श्रीधरं मिथिला;त्मजाकुचकुङ्कुमारणवक्षसम्
देवदेवमसेषभुतमनोहरं जगतां पतिं
दासभूतभयापहं प्रणमामि राघवकुञ्जरम्
(६)
यागदानसमाधिहोमजपादिकर्मकरैर्द्विजैः
वेदपारगतिहर्निशमादरेण सुपूजितम्
ताटकावधहेतुमङ्गदतातवालिनिषुदनं
पैतृकोदितपालकं प्रणमामि राघवकुञ्जरम्
(७)
लीलया खरदुषणादिनिशाचराशुचिनाशनं
रावणान्तकमच्युतं हरियुथकोटिगणाश्रयम्
नीरजाननमम्बुजाङ्घ्रियुगं हरिं भुवनाश्रयं
देवकार्यविवक्षणं प्रणमामि राघवकुञ्जरम्
(८)
कौशिकेन सुशिक्षितास्त्रकलापमायतलोचनं
चारुहासमनाथबन्धुमशेषलोकनिवासिनम्
वासवादिसुरारिरावणशासनं च परां गतिं
नीलमेधनिभाकृतिं प्रणमामि राघवकुञ्जरम्
(९)
राघवाष्टकमिष्टसिद्धिदमच्युताश्रयसाधकं
मुक्तिभुक्तिफलप्रदं धनधान्य्सिद्धिविवर्धनम्
रामचन्द्रकृपाकटाक्षदमादरेण सदा जपेत्
रामचन्द्रपदाम्बुजद्वयसन्ततार्पितमानसः
(१०)
राम राम नमोऽस्तु ते जय रामचन्द्र नमोऽस्तु ते
रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते
देवदेव नमोऽस्तु ते जय देवराज नमोऽस्तु ते
वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तु ते
UPDATED: September 15, 2016