Pratah Sri Tulasi Natih Sva Karatas #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ P
Song Name: Pratah Sri Tulasi Natih Sva Karatas
Official Name: Sri Guru Carana Smaranastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
प्रातः श्रीतुलसीनतिः स्वकरतस्तत्पिण्डिकालेपनं
तत्साम्मुख्यमथ स्थितिं स्मृतिरथ स्वस्वामिनोः पादयोः
तत्सेवार्थबहुप्रसूनचयनं नित्यं स्वयं यस्य तं
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ
(२)
मध्याह्ने तु निजेशपादकमलध्यानार्चनान्नार्पण
प्रादक्षिणानतिस्तुतिप्रणयिता नृत्यं सतां सङ्गतिः
श्रीमद्भागवतार्थसीधुमधुरास्वादः सदा यस्य तं
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ
(३)
प्रक्षाल्याङ्घ्रियुगं नतिस्तुतिजयं कर्तुं मनोऽत्युत्सुकं
सायं गोष्ठमुपागतं वनभुवो द्रष्टुं निजस्वामिनम्
प्रेमानन्दभरेण नेत्रपुटयोर्धारा चिराद्यस्य तं
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ
(४)
रात्रौ श्रीजयदेवपद्यपठनं तद्गीतगानं रसा
स्वादो भक्तजनैः कदाचिदभितः सङ्कीर्तने नर्तनम्
राधाकृष्णविलासकेल्यनुभवादुन्निद्रता यस्य तं
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ
(५)
निन्देत्यक्षरयोर्द्वयं परिचयं प्राप्तं न यत्कर्णयोः
साधूनां स्तुतिमेव यः स्वरसनामास्वादयत्य् अन्वहम्
विश्वास्यं जगदेव यस्य न पुनः कुत्रापि दोषग्रहः
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ
(६)
यः कोऽप्य् अस्तु पदाब्जयोर्निपतितो यः स्वीकरोत्य् एव तं
शीघ्रं स्वीयकृपाबलेन कुरुते भक्तौ तु मत्वास्पदम्
नित्यं भक्तिरहस्यशिक्षणविधिर्यस्य स्वभृत्येषु तं
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ
(७)
सर्वाङ्गैर्नतभृत्यमूर्ध्नि कृपया स्वपादार्पणं
स्मित्वा चारु कृपावलोकसुधया तन्मानसोदासनम्
तत्प्रेमोदयहेतवे स्वपदयोः सेवोपदेशः स्वयं
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ
(८)
राधे! कृष्ण! इति प्लुतस्वरयुतं नामामृतं नाथयोर्
जिह्वाग्रे नटयन्निरन्तरमहो नो वेत्ति वस्तु क्वचित्
यत्किञ्चिद्व्यवहारसाधकमपि प्रेम्नैव मग्नोऽस्ति यः
श्रीराधारमणं मुदा गुरुवरं वन्दे निपत्यावनौ
(९)
त्वत्पादाम्बुजसीधुसूचकतया पद्याष्टकं सर्वथा
यातं यत्परमाणुतां प्रभुवर प्रोद्यत्कृपावारिधे
मच्चेतोभ्रमरोऽवलम्बा तदिदं प्राप्याविलम्बं भवत्
सङ्गं मञ्जुनिकुञ्जधाम्नि जुषतां तत्स्वामिनोः सौरभम्
UPDATED: January 15, 2017