Prapanna Janani Vrti Jvalati #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ P
Song Name: Prapanna Janani Vrti Jvalati
Official Name: Parama Guru Prabhu Varastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
प्रपन्नजननीवृति ज्वलति संसृतिर्ज्वालया
यदीयनयनोदितातुलकृपातिवृष्टिर्द्रुतम्
विधूय दवथुं करोत्यमलभक्तिवाप्यौचितीं
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्
(२)
यदास्यकमलोदिता व्रजभुवो महिम्नां ततिः
श्रुता बत विसर्जयेत्पतिकलत्रपुत्रालयान्
कलिन्दतनयातटी वनकुटीरवासं नयेत्
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्
(३)
व्रजाम्बुजदृशां कथं भवति भावभूमा कथम्
भवेदनुगतिः कथं किमिह साधनं कोऽधिकृत्
इति स्फुटमवैति को यदुपदेशभाग्यं विना
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्
(४)
तपस्वियतिकर्मिणां सदसि तार्किकानां तथा
प्रतिस्वमतवैदुषीप्रकटनोढगर्वश्रियाम्
विराजति रविर्यथा तमसि यः स्वभक्त्योजसा
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्
(५)
किमद्य परिधास्यते किमथ भोज्यते राधया
समं मदनमोहनो मदनकोटिनिमज्जितः
इतीष्टवरिवस्यया नयति योऽष्टयामान्सदा
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्
(६)
मृदङ्गकरतालिकामधुरकीर्तने नर्तयन्
जनान्सुकृतिनो नटन्स्वयमपि प्रमोदाम्बुधौ
निमज्जति दृगम्बुभिःपुलकसङ्कुलःस्नाति यः
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्
(७)
समं भगवतो जनैः प्रवरभक्तिशास्त्रोदितं
रसं सुरसयन्मुहुः परिजनांश् च यः स्वादयन्
स्वशिष्यशतवेष्टितो जयति चक्रवर्त्याख्यया
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्
(८)
स्थितिः सुरसरित्तटे मदनमोहनो जीवनं
स्पृहा रसिकसङ्गमे चतुरिमा जनोद्धारणे
घृणा विषयिषु क्षमा झटिति यस्य चानुव्रजे
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम्
(९)
इदं प्रभुवराष्टकं पठति यस्तदीयो जनस्
तदङ्घ्रिकमलेष्टधीः स खलु रङ्गवत्प्रेमभाक्
विलासभृतमञ्जुल्याल्यतिकृपैकपात्रीभवन्
निकुञ्जनिलयाधिपावचिरमेव तौ सेवते
UPDATED: January 16, 2017