Om Purnam Adah Purnam Idam #

Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ O
Song Name: Om Purnam Adah Purnam Idam
Official Name: Sri Isopanisad
Author: Vyasadeva
Book Name: Isopanisad (Isa Upanisad)
Language: Sanskrit
LYRICS:
ॐ पूर्णमदः पूर्णमिदं
पूर्णात्पूर्णमुदच्यते
पूर्णस्य पूर्णमादाय
पूर्णमेवावशिष्यते
(१)
ईशावास्यमिदम् सर्वं
यत्किञ्च जगत्यां जगत्
तेन त्यक्तेन भुञ्जीथा
मा गृधः कस्य स्विद्धनम्
(२)
कुर्वन्नेवेह कर्माणि
जिजीविषेच्छतं समाः
एवं त्वयि नान्यथेतोऽस्ति
न कर्म लिप्यते नरे
(३)
असुर्या नाम ते लोका
अन्धेन तमसावृताः
तांस्ते प्रेत्याभिगच्छन्ति
ये के चात्महनो जनाः
(४)
अनेजदेकं मनसो जवीयो
नैनद्देवा आप्नुवन् पूर्वमर्षत्
तद्धावतोऽन्यानत्येति तिष्ठत्
तस्मिन्नपो मातरिश्वा दधाति
(५)
तदेजति तन् नैजति
तद्दूरे तदु अन्तिके
तदन्तरस्य सर्वस्य
तदु सर्वस्यास्य बाह्यतः
(६)
यस्तु सर्वाणि भूतान्य्
आत्मन्येवानुपश्यति
सर्वभूतेषु चात्मानं
ततो न विजुगुप्सते
(७)
यस्मिन्सर्वाणि भूतानि
आत्मैवाभूद्विजानतः
तत्र को मोहः कः शोक
एकत्वमनुपश्यतः
(८)
स पर्यगाच्छुक्रमकायमव्रणम्
अस्नाविरम्शुद्धमपापविद्धम्
कविर्मनीषी परिभूः स्वयम्भूर्
याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः
(९)
अन्धं तमः प्रविशन्ति
येऽविद्यामुपासते
ततो भूय इव ते तमो
य उ विद्यायाम् रताः
(१०)
अन्यदेवाहुर्विद्यया
न्यदाहुरविद्यया
इति शुश्रुम धीराणां
ये नस्तद् विचचक्षिरे
(११)
विद्यां चाविद्यां च यस्
तद् वेदोभयं सह
अविद्ययामृत्युं तीर्त्वा
विद्ययामृतमश्नुते
(१२)
अन्धं तमः प्रविशन्ति
येऽसम्भूतिम् उपासते
ततो भूय इव ते तमो
य उ सम्भूत्याम् रताः
(१३)
अन्यदेवाहुः सम्भवाद्
अन्यदाहुरसम्भवात्
इति शुश्रुम धीराणां
ये नस्तद् विचचक्षिरे
(१४)
सम्भूतिं च विनाशं च
यस्तद् वेदोभयं सह
विनाशेन मृत्युं तीर्त्वा
सम्भूत्यामृतमश्नुते
(१५)
हिरण्मयेन पात्रेण
सत्यस्यापिहितं मुखम्
तत् त्वं पूषन्न् अपावृणु
सत्यधर्माय दृष्टये
(१६)
पूषन्नेकर्षे यम सूर्य प्राजापत्य
व्यूह रश्मीन्समूह
तेजो यत् ते रूपं कल्याणतमं
तत् ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि
(१७)
वायुरनिलममृतम्
अथेदं भस्मान्तं शरीरम्
ॐ क्रतो स्मर कृतं स्मर
क्रतो स्मर कृतं स्मर
(१८)
अग्ने नय सुपथा राये अस्मान्
विश्वानि देव वयुनानि विद्वान्
युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां ते नमौक्तिं विधेम
UPDATED: September 13, 2015