Om Parthaya Pratibodhitam #

Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ O
Song Name: Om Parthaya Pratibodhitam
Official Name: Gita Dhyanam
Author: Adi Sankaracarya
Book Name: None
Language: Sanskrit
LYRICS:
(१)
(ॐ) पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारते
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं
अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम्
(२)
नमोऽस्तु ते व्यास विशालबुद्धे
फुल्लारविन्दायातपत्रनेत्रे
येन त्वया भारततैलपूर्णः
प्रज्वलितो ज्ञानमयः प्रदीपः
(३)
प्रपन्नपरिजाताय
तोत्रवेत्रैकपाणये
ज्ञानमुद्राय कृष्णाय
गीतामृतदुहे नमः
(४)
सर्वोपनिषदो गावो
दोग्धा गोपालनन्दनः
पार्थो वत्सः सुधीर्भोक्ता
दुग्धं गीतामृतं महत्
(५)
वसुदेवसुतं देवं
कंसचाणूरमर्दनम्
देवकीपरमानन्दं
कृष्णं वन्दे जगद्गुरुम्
(६)
भीष्मद्रोणतटा जयद्रथजला गान्धारीनीलोत्पला
शल्यग्राहवती कृपेण वहिनी कर्णेन वेलाकुल
अश्वत्तामविकर्णघोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवार्णवनदी कैवर्तकः केश्वः
(७)
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं
नानाख्यानककेशरं हरिकथासम्बोधनाबोधितम्
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसनं श्रेयसे
(८)
मूकं करोति वाचालं
पङ्गुं लङ्घायते गिरिम्
यत्कृपा तमहं वन्दे
परमानन्दमाधवम्
(९)
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर्
वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः
UPDATED: January 22, 2017