Skip to main content

Nrsimha Kavacam Vaksye

·350 words·2 mins
kksongs
Author
kksongs
Un-official KKsongs

Nrsimha Kavacam Vaksye
#

http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org

Home Song Lyrics N

Song Name: Nrsimha Kavacam Vaksye

Official Name: Nrsimha Kavaca Stotram

Author: Vyasadeva

Book Name: Brahmanda Purana

Language: Sanskrit

LYRICS:

(१)

नृसिंहकवचं वक्ष्ये

प्रह्लादेनोदितं पुरा

सर्वरक्षकरं पुन्यं

सर्वोपद्रवनाशनम्

(२)

सर्वसम्पत्करं चैव

स्वर्गमोक्षप्रदायकम्

ध्यात्वा नृसिंहं देवेशं

हेमसिंहासनस्थितम्

(३)

विवृतास्यं त्रिनयनं

शरदिन्दुसमप्रभम्

लक्ष्म्यालिङ्गितवामाङ्गम्

विभूतिभिरुपाश्रितम्

(४)

चतुर्भुजं कोमलाङ्गं

स्वर्णकुण्डलशोभितम्

सरोजशोबितोरस्कं

रत्नकेयूरमुद्रितम्

(५)

तप्तकाञ्चनसन्काशं

पीतनिर्मलवाससम्

इन्द्रादिसुरमौलिष्ठः

स्फुरन्माणिक्यदीप्तिभिः

(६)

विराजितपदद्वन्द्वं

शङ्खचक्रादिहेतिभिः

गरुत्मता च विनयात्

स्तूयमानं मुदान्वितम्

(७)

स्वहृत्कमलसम्वासं

कृत्वा तु कवचं पथेत्

नृसिंहो मे शिरः पातु

लोकरक्षार्थसम्भवः

(८)

सर्वगो ऽपि स्तम्भवासः

फलं मे रक्षतु ध्वनिम्

नृसिंहो मे दृशौ पातु

सोमसूर्याग्निलोचनः

(९)

स्मृतं मे पातु नृहरिः

मुनिवार्यस्तुतिप्रियः

नासं मे सिंहनाशस्तु

मुखं लक्ष्मीमुखप्रियः

(१०)

सर्वविद्याधिपः पातु

नृसिंहो रसनं मम

वक्त्रं पात्व् इन्दुवदनं

सदा प्रह्लादवन्दितः

(११)

नृसिंहह् पातु मे कण्ठं

स्कन्धौ भूभृदनन्तकृत्

दिव्यास्त्रशोभितभुजः

नृसिंहः पातु मे भुजौ

(१२)

करौ मे देववरदो

नृसिंहः पातु सर्वतः

हृदयं योगिसाध्यश्च

निवासं पातु मे हरिः

(१३)

मध्यं पातु हिरण्याक्ष

वक्षःकुक्षिविदारणः

नाभिं मे पातु नृहरिः

स्वनाभिब्रह्मसंस्तुतः

(१४)

ब्रह्माण्डकोटयः कट्यां

यस्यासौ पातु मे कटिम्

गुह्यं मे पातु गुह्यानां

मन्त्रानां गुह्यरूपदृक्

(१५)

ऊरू मनोभवः पातु

जानुनी नररूपदृक्

जङ्घे पातु धराभर

हर्ता यो ऽसौ नृकेशरी

(१६)

सुरराज्यप्रदः पातु

पादौ मे नृहरीश्वरः

सहस्रशीर्षापुरुषः

पातु मे सर्वशस्तनुम्

(१७)

मनोग्रः पूर्वतः पातु

महावीराग्रजो ऽग्नितः

महाविष्णुर्दक्षिणे तु

महाज्वलस्तु नैरृतः

(१८)

पश्चिमे पातु सर्वेशो

दिशि मे सर्वतोमुखः

नृसिंहः पातु वायव्यां

सौम्यां भूषणविग्रहः

(१९)

ईशान्यां पातु भद्रो मे

सर्वमङ्गलदायकः

संसारभयतः पातु

मृत्योर्मृत्युर्नृकेशरी

(२०)

इदं नृसिंहकवचं

प्रह्लादमुखमण्डितम्

भक्तिमान्यः पथेनैत्यं

सर्वपापैः प्रमुच्यते

(२१)

पुत्रवान्धनवान्लोके

दीर्घायुरुपजायते

यं यं कामयते कामं

तं तं प्राप्नोत्यसंशयम्

(२२)

सर्वत्र जयमाप्नोति

सर्वत्र विजयी भवेत्

भूम्यन्तरीक्षदिव्यानां

ग्रहानां विनिवारणम्

(२३)

वृश्चिकोरगसम्भूत

विषापहरणं परम्

ब्रह्मराक्षसयक्षाणां

दूरोत्सारणकारणम्

(२४)

भुजे वा तलपात्रे वा

कवचं लिखितं शुभम्

करमूले धृतं येन

सिध्येयुः कर्मसिद्धयः

(२५)

देवासुरमनुष्येषु

स्वं स्वमेव जयं लभेत्

एकसन्ध्यं त्रिसन्ध्यं वा

यः पठेन्नियतो नरः

(२६)

सर्वमङ्गलमङ्गल्यं

भुक्तिं मुक्तिं च विन्दति

द्वात्रिंशतिसहस्राणि

पथेत्शुद्धात्मनां नृणाम्

(२७)

कवचस्यास्य मन्त्रस्य

मन्त्रसिद्धिः प्रजायते

अनेन मन्त्रराजेन

कृत्वा भस्माभिर्मन्त्रानाम्

(२८)

तिलकं विन्यसेद्यस्तु

तस्य ग्रहभयं हरेत्

त्रिवारं जपमानस्तु

दत्तं वार्याभिमन्त्र्य च

(२९)

प्रसयेद्यो नरो मन्त्रं

नृसिंहध्यानमाचरेत्

तस्य रोगः प्रणश्यन्ति

ये च स्युः कुक्षिसम्भवाः

(३०)

गर्जन्तं गार्जयन्तं निजभुजपतलं स्फोटयन्तं हतन्तं

रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तम्क्षिपन्तम्

क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं

वीक्षन्तं पूर्णयन्तं करनिकरशतैर्दिव्यसिंहं नमामि

UPDATED: November 7, 2015