Na Yoga Siddhir Na Mamastu #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ N
Song Name: Na Yoga Siddhir Na Mamastu
Official Name: Vrndavanastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
न योगसिद्धिर्न ममास्तु मोक्षो
वैकुण्ठलोके ऽपि न पार्षदत्वम्
प्रेमापि न स्यादिति चेत्तरां तु
ममास्तु वृन्दावन एव वासः
(२)
तार्णं जनुर्यत्र विधिर्ययाचे
सद्भक्तचूडामणिरुद्धवोऽपि
वीक्ष्यैव माधुर्यधूरां तदस्मिन्
ममास्तु वृन्दावन एव वासः
(३)
किं ते कृतं हन्त तपः क्षितीति
गोप्योऽपि भूमेः स्तुवते स्म कीर्तिम्
येनैव कृष्णाङ्घ्रिपदाङ्किते ऽस्मिन्
ममास्तु वृन्दावन एव वासः
(४)
गोपाङ्गनालम्पटतैव यत्र
यस्यां रसः पूर्णतमत्वमाप
यतो रसो वै स इति श्रुतिस्तन्
ममास्तु वृन्दावन एव वासः
(५)
भान्डीरगोवर्धनरासपीठैस्
त्रीसीमके योजनपञ्चकेन
मिते विभुत्वादमिते ऽपि चास्मिन्
ममास्तु वृन्दावन एव वासः
(६)
यत्राधिपत्यं वृषभानुपुत्र्या
येनोदयेत्प्रेमसुखं जनानाम्
यस्मिन्ममाशा बलवत्यतोऽस्मिन्
ममास्तु वृन्दावन एव वासः
(७)
यस्मिन्महारासविलासलीला
न प्राप यां श्रीरपि सा तपोभिः
तत्रोल्लसन्मञ्जुनिकुञ्जपुञ्जे
ममास्तु वृन्दावन एव वासः
(८)
सदा रुरुन्यङ्कुमुखा विशङ्कं
खेलन्ति कूजन्ति पिकालिकीराः
शिखण्डिनो यत्र नटन्ति तस्मिन्
ममास्तु वृन्दावन एव वासः
(९)
वृन्दावनस्याष्टकमेतदुच्चैः
पठन्ति ये निश्चलबुद्धयस्ते
वृन्दावनेशाङ्घ्रिसरोजसेवां
साक्षाल्लभन्ते जनुषोऽन्त एव
UPDATED: February 6, 2017