Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ N
Song Name: Nava Gaura Varam
Official Name: Sacisutastakam
Author: Sarvabhauma Bhattacarya
Book Name: None
Language: Sanskrit
LYRICS:
(१)
नव गौरवरं नवपुष्पशरं
नवभावधरं नवलास्यपरम्
नवहास्यकरं नवहेमवरं
प्रणमामि शचीसुतगौरवरम्
(२)
नवप्रेमयुतं नवनीतशुचं
नववेशकृतं नवप्रेमरसम्
नवधा विलसत्शुभप्रेममयं
प्रणमामि शचीसुतगौरवरम्
(३)
हरिभक्तिपरं हरिनामधरं
करजप्यकरं हरिनामपरम्
नयने सततं प्रणयाश्रुधरं
प्रणमामि शचीसुतगौरवरम्
(४)
सततं जनताभवतापहरं
परमार्थपरायणलोकगतिम्
नवलेहकरं जगत्तापहरं
प्रणमामि शचीसुतगौरवरम्
(५)
निजभक्तिकरं प्रियचारुतरं
नटनर्तननागरराजकुलम्
कुलकामिनिमानसलास्यकरं
प्रणमामि शचीसुतगौरवरम्
(६)
करतालवलं कलकण्ठरवं
मृदुवाद्यसुवीणिकया मधुरम्
निजभक्तिगुणावृतनात्यकरं
प्रणमामि शचीसुतगौरवरम्
(७)
युगधर्मयुतं पुनर्नन्दसुतं
धरणीसुचित्रं भवभावोचितम्
तनुध्यानचितं निजवासयुतम्
प्रणमामि शचीसुतगौरवरम्
(८)
अरुणं नयनं चरणं वसनं
वदने स्खलितं स्वकनामधरम्
कुरुते सुरसं जगतः जीवनं
प्रणमामि शचीसुतगौरवरम्
UPDATED: September 29, 2015