Namaste Sri Radhe Namaste Sri Syama #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ N
Song Name: Namaste Sri Radhe Namaste Sri Syama
Official Name: None
Author: Rupa Goswami
Book Name: Padyavali (Rupa Goswami) / Vidagdha Madhava
Language: Sanskrit
LYRICS:
(ध्रुव पद)
नमस्ते श्री राधे नमस्ते श्री श्याम
(१)
प्रियः सोऽयं कृष्णः सहचरि कुरुक्षेत्रमिलितस्
तथाहं सा राधा तदिदमुभयोः सङ्गमसुखम्
तथाप्यन्तःखेलन्मधुरमुरलीपञ्चमजुषे
मनो मे कालिन्दीपुलिनविपिनाय स्पृहयति
(२)
सुगन्धौ माकन्दप्रकरमकरन्दस्य मधुरे
विनिस्यन्दे वन्दीकृतमधुपवृन्दं मुहुरिदम्
कृतान्दोलं मन्दोन्नतिभिरनिलैश्चन्दनगिरेर्
ममानन्दं वृन्दाविपिनमतुलं तुन्दिलयति
(३)
क्वचिद्भृङ्गीगीतं क्वचिदनिलभङ्गीशिशिरता
क्वचिद्वल्लीलास्यं क्वचिदमलमल्लीपरिमलः
क्वचिद्धाराशाली करकफलपालीरसभरो
हृषीकाणां वृन्दं प्रमदयति वृन्दावनमिदम्
(४)
बलादक्ष्णोर्लक्ष्मीः कवलयति नव्यं कुवलयं
मुखोल्लासः फुल्लं कमलवनमुल्लङ्घयति च
दशां कष्टामष्टापदमपि नयत्याङ्गिकरुचिर्
विचित्रं राधायाः किमपि किल रूपं विलसति
UPDATED: November 8, 2015