Namamisvaram Sacidananda Rupam (Sri Damodarastakam) #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ N
Song Name: Namamisvaram Saccidananda Rupam
Official Name: Damodarastakam
Author: Vyasadeva
Book Name: Padma Purana
Language: Sanskrit
LYRICS:
(१)
नमामीश्वरं सच्चिदानन्दरूपं
लसत्कुण्डलं गोकुले भ्राजमनम्
यशोदाभियोलूखलाद्धावमानं
परामृष्टमत्यन्ततो द्रुत्य गोप्या
(२)
रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तम्
कराम्भोजयुग्मेन सातङ्कनेत्रम्
मुहुः श्वासकम्पत्रिरेखाङ्ककण्ठ
स्थितग्रैवं दामोदरं भक्तिबद्धम्
(३)
इतीदृक्स्वलीलाभिरानन्दकुण्डे
स्वघोषं निमज्जन्तमाख्यापयन्तम्
तदीयेषितज्ञेषु भक्तैर्जितत्वं
पुनः प्रेमतस्तं शतावृत्ति वन्दे
(४)
वरं देव मोक्षं न मोक्षावधिं वा
न चन्यं वृणेऽहं वरेषादपीह
इदं ते वपुर्नाथ गोपालबालं
सदा मे मनस्याविरास्तां किमन्यैः
(५)
इदं ते मुखाम्भोजमत्यन्तनीलैर्
वृतं कुन्तलैः स्निग्धरक्तैश् च गोप्या
मुहुश्चुम्बितं बिम्बरक्ताधरं मे
मनस्याविरास्तामलं लक्षलाभैः
(६)
नमो देव दामोदरानन्त विष्णो
प्रसीद प्रभो दुःखजालाब्धिमग्नम्
कृपादृष्टिवृष्ट्यातिदीनं बतानु
गृहाणेष मामज्ञमेध्यक्षिदृश्यः
(७)
कुवेरात्मजौ बद्धमूर्त्यैव यद्वत्
त्वया मोचितौ भक्तिभाजौ कृतौ च
तथा प्रेमभक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मेऽस्ति दामोदरेह
(८)
नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने
नमो राधिकायै त्वदीयप्रियायै
नमोऽनन्तलीलाय देवाय तुभ्यम्
UPDATED: October 6, 2015