Madhura Mrdula Cittah Prema #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ M
Song Name: Madhura Mrdula Cittah Prema
Official Name: Gopaladevastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
मधुरमृदुलचित्तः प्रेममात्रैकवित्तः
स्वजनरचितवेषः प्राप्तशोभाविशेषः
विविधमणिमयालङ्कारवान्सर्वकालं
स्फुरतु हृदि स एव श्रीलगोपालदेवः
(२)
निरुपमगुणरूपः सर्वमाधुर्यभूपः
श्रिततनुरुचिदास्यः कोटिचन्द्रस्तुतास्यः
अमृतविजयिहास्यः प्रोच्छलच्चिल्लिलास्यः
स्फुरतु हृदि स एव श्रीलगोपालदेवः
(३)
धृतनवपरभागः सव्यहस्तस्थितागः
प्रकटितनिजकक्षः प्राप्तलावण्यलक्षः
कृतनिजजनरक्षः प्रेमविस्तारदक्षः
स्फुरतु हृदि स एव श्रीलगोपालदेवः
(४)
क्रमवलदनुरागस्वप्रियापाङ्गभाग
ध्वनितरसविलासज्ञानविज्ञापिहासः
स्मृतरतिपतियागः प्रीतिहंसीतडागः
स्फुरतु हृदि स एव श्रीलगोपालदेवः
(५)
मधुरिमभरमग्ने भात्यसव्येऽवलग्ने
त्रिवलिरलसवत्त्वात्यस्य पुष्टानतत्वात्
इतरत इह तस्या माररेखेव रस्या
स्फुरतु हृदि स एव श्रीलगोपालदेवः
(६)
वहति वलितहर्षं वाहयंश्चानुवर्षं
भजति च सगणं स्वं भोजयन्योऽर्पयन्स्वम्
गिरिमुकुटमणिं श्रीदामवन्मित्रताश्रीः
स्फुरतु हृदि स एव श्रीलगोपालदेवः
(७)
अधिधरमनुरागं माधवेन्द्रस्य तन्वंस्
तदमलहृदयोत्थां प्रेमसेवां विवृण्वन्
प्रकटितनिजशक्त्या वल्लभाचार्यभक्त्या
स्फुरतु हृदि स एव श्रीलगोपालदेवः
(८)
प्रतिदिनमधुनापि प्रेक्ष्यते सर्वदापि
प्रणयसुरसचर्या यस्य वर्या सपर्या
गणयतु कति भोगान्कः कृती तत्प्रयोगान्
स्फुरतु हृदि स एव श्रीलगोपालदेवः
(९)
गिरिधरवरदेवस्याष्टकेनेममेव
स्मरति निशि दिने वा यो गृहे वा वने वा
अकुटिलहृदयस्य प्रेमदत्वेन तस्य
स्फुरतु हृदि स एव श्रीलगोपालदेवः
UPDATED: January 29, 2017