Kula Sthitan Karmina Uddidhirsur #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ K
Song Name: Kula Sthitan Karmina Uddidhirsur
Official Name: Ganga Narayanastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
कुलस्थितान्कर्मिण उद्दिधीर्षुर्
गङ्गैव यस्मिन्कृपयाविशेष
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम्
(२)
नरोत्तमो भक्त्यवतार एव
यस्मिन्स्वभक्तिं निदधौ मुदैव
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम्
(३)
वृन्दावने यस्य यशः प्रसिद्धं
अद्यापि गीयते सतां सदःसु
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम्
(४)
श्रीगोविन्ददेवद्विभुजत्वशंसि
श्रुतिं वदन्सद्विपदं निरास्थत्
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम्
(५)
सौशील्ययुक्तो गुणरत्नराशिः
पाण्डित्यसारः प्रतिभाविवस्वान्
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम्
(६)
जनान्कृपादृष्टिभिरेव सद्यः
प्रपद्यमानान्स्वपदेऽकरोद्यः
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम्
(७)
लोके प्रभुत्वं स्थिरभक्तियोगं
यस्मै स्वयं गौरहरिर्व्यतानीत्
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम्
(८)
वृन्दावनीयातिरहस्यभक्तेर्ज्ञानं
विना यः न कुतोऽपि सिद्ध्येत्
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम्
(९)
विश्रम्भवान्यश् चरणेषु
गङ्गानारायणप्रेमाम्बुराशेः
एतत्पठेदष्टकमेकचित्तः
स तत्परीवारपदं प्रयाति
UPDATED: January 19, 2017