Krsna Prasadena Samasta Saila #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ K
Song Name: Krsna Prasadena Samasta Saila
Official Name: Govardhanastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
कृष्णप्रसादेन समस्तशैल
साम्राज्यमाप्नोति च वैरिणोऽपि
शक्रस्य यः प्राप बलिं स साक्षाद्
गोवर्धनो मे दिशतामभीष्टम्
(२)
स्वप्रेष्ठहस्ताम्बुजसौकुमार्य
सुखानुभूतेरतिभूमि वृत्तेः
महेन्द्रवज्राहतिमप्यजानन्
गोवर्धनो मे दिषतामभीष्टम्
(३)
यत्रैव कृष्णो वृषभानुपुत्र्या
दानं गृहीतुं कलहं वितेने
श्रुतेः स्पृहा यत्र महत्यतः श्री
गोवर्धनो मे दिषतामभिष्टम्
(४)
स्नात्वा सरः स्वशु समीर हस्ती
यत्रैव नीपादिपराग धूलिः
आलोलयन्खेलति चारु स श्री
गोवर्धनो मे दिषतामभीष्टम्
(५)
कस्तूरिकाभिः शयितं किमत्रेत्य्
ऊहं प्रभोः स्वस्य मुहुर्वितन्वन्
नैसर्गिकस्वीयशिलासुगन्धैर्
गोवर्धनो मे दिषतामभीष्टम्
(६)
वंशप्रतिध्वन्यनुसारवर्त्म
दिदृक्षवो यत्र हरिं हरिण्याः
यान्त्यो लभन्ते न हि विस्मिताः स
गोवर्धनो मे दिषतामभीष्टम्
(७)
यत्रैव गङ्गामनु नावि राधाम्
आरोह्य मध्ये तु निमग्ननौकः
कृष्णो हि राधानुगलो बभौ स
गोवर्धनो मे दिषतामभीष्टम्
(८)
विना भवेत्किं हरिदासवर्य
पदाश्रयं भक्तिरतः श्रयामि
यमेव सप्रेम निजेशयोः श्री
गोवर्धनो मे दिषतामभीष्टम्
(९)
एतत्पठेद्यो हरिदासवर्य
महानुभावाष्टकमार्द्रचेताः
श्रीराधिकामाधवयोः पदाब्ज
दास्यं स विन्देदचिरेण साक्षात्
UPDATED: February 12, 2017