Koti Kandarpa Sandarpa Vidhvamsana #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ K
Song Name: Koti Kandarpa Sandarpa Vidhvamsana
Official Name: Gokulananda Govinda Devastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
कोटिकन्दर्पसन्दर्पविध्वंसन
स्वीयरूपामृताप्लावितक्ष्मातल
भक्तलोकेक्षणं सक्षणं तर्षयन्
गोकुलानन्द गोविन्द तुभ्यं नामः
(२)
यस्य सौरभ्यसौलभ्यभाग् गोपिका
भाग्यलेशाय लक्ष्म्यापि तप्तं तपः
निन्दितेन्दीवरश्रीक तस्मै मुहुर्
गोकुलानन्द गोविन्द तुभ्यं नामः
(३)
वंशिकाकण्ठयोर्यः स्वरस्ते स चेत्
तालरागादिमान्श्रुत्यनुभ्राजितः
का सुधा ब्रह्म किं का नु वैकुण्ठमुद्
गोकुलानन्द गोविन्द तुभ्यं नामः
(४)
यत्पदस्पर्शमाधुर्यमज्जत्कुचा
धन्यतां यान्ति गोप्यो रमातोऽप्यलम्
यद्यशो दुन्दुभेर्घोषणा सर्वजिद्
गोकुलानन्द गोविन्द तुभ्यं नामः
(५)
यस्य फेलालवास्वादने पात्रतां
ब्रह्मरुद्रादयो यान्ति नैवान्यके
आधरं शीधुमेतेऽपि विन्दन्ति नो
गोकुलानन्द गोविन्द तुभ्यं नामः
(६)
यस्य लीलामृतं सवथाकर्षकं
ब्रह्मसौख्यादपि स्वादु सर्वे जगुः
तत्प्रमाणं स्वयं व्याससूनुः शुको
गोकुलानन्द गोविन्द तुभ्यं नामः
(७)
यत्षडैश्वर्यमप्यार्यभक्तात्मनि
ध्यातमुद्यच्चमत्कारमानन्दयेत्
नाथ तस्मै रसाम्भोधये कोटिशो
गोकुलानन्द गोविन्द तुभ्यं नामः
(८)
गोकुलानन्दगोविन्ददेवाष्टकं
यः पठेन्नित्यमुत्कण्ठितस्त्वत्पदोः
प्रेमसेवाप्तये सोऽचिरान्माधुरी
सिन्धुमज्जन्मना वाञ्छितं विन्दताम्
UPDATED: January 29, 2017