Kim Tapas Cacara Tirtha #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ K
Song Name: Kim Tapas Cacara Tirtha
Official Name: Krsna Kundastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
किं तपश्चचार तीर्थलक्षमक्षयं पुरा
सुप्रसीदति स्म कृष्ण एव सदरं यतः
यत्र वासमाप साधु तत्समस्तदुर्लभे
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः
(२)
यद्यरिष्टदानवोऽपि दानदो महानिधेर्
अस्मदादिदुर्मतिभ्य इत्यहोवसीयते
यो मृतिच्छलेन यत्र मुक्तिमद्भुतां व्यधात्
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः
(३)
गोवधस्य निष्कृतिस्त्रिलोकतीर्थकोटिभी
राधयेत्यवादि तेन ता हरिः समाह्वयन्
यत्र पार्ष्णिघाटजे ममज्ज च स्वयं मुदा
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः
(४)
क्वापि पापनाश एव कर्मबन्धबन्धनाद्
ब्रह्मसौख्यमेव विष्णुलोकवासिता क्वचित्
प्रेमरत्नमत्ययत्नमेव यत्र लभ्यते
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः
(५)
फुल्लमाधवीरसालनीपकुञ्जमण्डले
भृङ्गकोककोकिलादिकाकली यदञ्चति
आष्टयामिकावितर्ककोटिभेदसौरभं
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः
(६)
दोलकेलिचित्ररासनृत्यगीतवादनैर्
निह्नवप्रसूनयुद्धसीधुपानकौतुकैः
यत्र खेलतः कोशोरशेखरौ सहालिभिस्
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः
(७)
दिव्यरत्ननिर्मितावतारसारसौष्टवैश्
छत्रिका विराजि चारु कुट्टिमप्रभाभरैः
सर्वलोकलोचनातिधन्यता यतो भवेत्
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः
(८)
माथुरं विकुण्ठतोऽपि जन्मधामदुर्लभं
वास्काननन्ततोऽपि पाणिना धृतो गिरिः
श्रीहरेस्ततोऽपि यत्परं सरोऽतिपावनं
तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः
(९)
कृष्णकुण्डतीरवाससाधकं पठेदिदं
योऽष्टकं धियं निमज्य केलकुञ्जराजितोः
राधिकागिरीन्द्रधारिणोः पदाम्बुजेषु स
प्रेमदास्यमेव शीघ्रमाप्नुयादनामयम्
UPDATED: February 12, 2017