Skip to main content

Karma Kanda Svarupo’yam

·272 words·2 mins
kksongs
Author
kksongs
Un-official KKsongs

Karma Kanda Svarupo’yam
#

http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org

Home Song Lyrics K

Song Name: Karma Kanda Svarupo’yam

Official Name: Chapter 6; Krsna Lila Varnanam Part 3

Author: Bhaktivinoda Thakura

Book Name: Krsna Samhita

Language: Sanskrit

LYRICS:

(१)

कर्मकाण्डस्वरूपोऽयं मागधः कंसबान्धवः

रुरोध मथुरां रम्यां ब्रह्मज्ञानस्वरूपिणी

(२)

मायया बान्धवान्कृष्णो नीतवान्द्वारकां पुरीम्

म्लेच्छतायवनं हित्वा सरामो गतवान्हरिः

(३)

मुचुकुन्दं महाराजं मुक्तिमार्गाधिकारिणम्

पदाहनद्दुराचारस्तस्य तेजोहतस्तदा

(४)

ऐश्वर्यज्ञानमय्यां वै द्वारकायां गतो हरिः

उवाह रुक्मिणीं देवीं परमैश्वर्यरूपिणीम्

(५)

प्रद्युम्नः कामरूपो वै जातस्तस्याः हृतस्तदा

मायारूपेण दैत्येन शम्बरेण दुरात्मना

(६)

स्वपत्न्या रतिदेव्या सः शिक्षितः परवीरहा

निहत्य शम्बरं कामो द्वारकां गतवांस्तदा

(७)

मानमय्याश्च राधायाः सत्यभामां कलां शुभाम्

उपयेमे हरिः प्रीत्या मण्युद्धारच्छलेन च

(८)

माधुर्यह्लादिनीशक्तेः प्रतिच्छाया स्वरूपकाः

रुक्मिण्याद्या महिष्योऽष्ट कृष्णस्यान्तःपुरे किल

(९)

ऐश्वर्ये फलवान्कृष्णः सन्ततेर्विस्तृतिर्यतः

सात्वतां वंशसंवृद्धिः द्वारकायां सतां हृदि

(१०)

स्थूलार्थबोधके ग्रन्थे न तेषामर्थनिर्णयः

पृथग्रूपेण कर्तव्यः सुधियः प्रथयन्तु तत्

(११)

अद्वैतरूपिणं दैत्यं हत्वा काशीं रमापतिः

हरधामादहत्कृष्णस्तद्दुष्टमतपीठकम्

(१२)

भौमबुद्धिमयं भौमं हत्वा स गरुडासनः

उद्धृत्य रमणीवृन्दमुपयेमे प्रियः सताम्

(१३)

घाटयित्वा जरासन्धं भीमेन धर्मभ्रातृणा

अमोचयद्भूमिपालान्कर्मपाशस्य बन्धनात्

(१४)

यज्ञे च धर्मपुत्रस्य लब्ध्वा पूजामशेषतः

चकर्त शिशुपालस्य शिरः सन्द्वेष्टुरात्मनः

(१५)

कुरुक्षेत्ररणे कृष्णो धराभारं निवर्त्य सः

समाजरक्षणं कार्यमकरोत्करुणामयः

(१६)

सर्वासां महिषीणां च प्रतिसद्म हरिं मुनिः

दृष्ट्वा च नारदोऽगच्छद्विस्मयं तत्त्वनिर्णये

(१७)

कदर्यभावरूपः स दन्तवक्रो हतस्तदा

सुभद्रां धर्मभ्रात्रे हि नराय दत्तवान्प्रभुः

(१८)

शाल्वमायां नाशयित्वा ररक्ष द्वारकां पुरीम्

नृगं तु कृकलासत्वात्कर्मपाशादमोचयत्

(१९)

सुदाम्ना प्रीतिदत्तं च तण्डुलं भुक्तवान्हरिः

पाषण्डानां प्रदत्तेन मिष्टेन न तथा सुखी

(२०)

बलोऽपि शुद्धजीवोऽयं कृष्णप्रेमवशं गतः

अवधीद्दिविदं मूढं निरीश्वरप्रमोदकम्

(२१)

स्वसंविन्निर्मिते धाम्नि हृद्गते रोहिणीसुतः

गोपीभिर्भावरूपाभी रेमे बृहद्वनान्तरे

(२२)

भक्तानां हृदये शश्वत्कृष्णलीला प्रवर्तते

नटोऽपि स्वपुरं याति भक्तानां जीवनात्यये

(२३)

कृष्णेच्छा कालरूपा सा यादवान्भावरूपकान्

निवर्त्य रङ्गतः साध्वी द्वारकां प्लावयत्तदा

(२४)

प्रभासे भगवज्ज्ञाने जराक्रान्तान्कलेवरान्

परस्परविवादेन मोचयामास नन्दिनी

(२५)

कृष्णभावस्वरूपोऽपि जराक्रान्तात्कलेवरात्

निर्गतो गोकुलं प्राप्तो महिम्नि स्वे महीयते

UPDATED: February 1, 2017