Kararavindena Padaravindam #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ K
Song Name: Kararavindena Padaravindam
Official Name: Bala-Mukundastakam
Author: Bilvamangala Thakura
Book Name: None
Language: Sanskrit
LYRICS:
(१)
करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम्
वटस्य पत्रस्य पुटेशयानं
बालं मुकुन्दं मनसा स्मरामि
(२)
सम्ह्रुत्य लोकान्वटपत्रमध्ये
शयनमाद्यन्त विहीनरूपम्
सर्वेश्वरं सर्वहितावतारं
बालं मुकुन्दं मनसा स्मरामि
(३)
इन्दीवरश्यामल कोमलाङ्गम्
इन्द्रादिदेवार्चित पादपद्मम्
सन्तानकल्पद्रुममाश्रितानां
बालं मुकुन्दं मनसा स्मरामि
(४)
लम्बालकं लम्बितहारयष्टिं
शृउङ्गारलीलाङ्कित दन्त पङ्क्तिम्
बिम्बाधरं चारुविशालनेत्रं
बालं मुकुन्दं मनसा स्मरामि
(५)
शिक्ये निधायापि पयोदधीनि
बहिर्गताय व्रजनायिकायाम्
भुक्त्वायथेष्टं कपटेनसुप्तं
बालं मुकुन्दं मनसा स्मरामि
(६)
कालिजलस्थित कालियस्य
फणाग्ररङ्गेनटनप्रियन्तम्
तत्प्रुच्छहस्तं शरदिन्दुवक्त्रं
बालं मुकुन्दं मनसा स्मरामि
(७)
उलूखलेबद्धमुदारशौर्यम्
उत्तुङ्गयुग्मार्जुन भङ्गलीलाम्
उत्फुल्लपद्मायत चारुनेत्रं
बालं मुकुन्दं मनसा स्मरामि
(८)
आलोक्य मातुमुख मादरेण
स्तन्यं पिबन्तं सरसीरुहाक्षम्
सच्चिन्मयं देवमनन्तरूपं
बालं मुकुन्दं मनसा स्मरामि
UPDATED: September 2, 2016