Jambunadosnisa Viraji #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ J
Song Name: Jambunadosnisa Viraji
Official Name: Govinda Devastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
जाम्बूनदोष्णीषविराजिमुक्ता
मालामणिद्योतिशिखण्डकस्य
भङ्ग्या नृणां लोलुपयन्दृशः श्री
गोविन्ददेवः शरणं ममास्तु
(२)
कपोलयोः कुण्डललास्यहास्य
च्छविच्छिटाचुम्बितयोर्युगेन
संमोहयन्सम्भजतां धियः श्री
गोविन्ददेवः शरणं ममास्तु
(३)
स्वप्रेयसीलोचनकोणशीधु
प्राप्त्यै पुरोवर्ति जनेक्षणेन
भावं कमप्युद्गमयन्बुधानां
गोविन्ददेवः शरणं ममास्तु
(४)
वामप्रगण्डार्पितगण्डभास्वत्
ताटङ्कलोलालककान्तिसिक्तैः
भ्रूवल्गनैरुन्मदयन्कुलस्त्रीर्
गोविन्ददेवः शरणं ममास्तु
(५)
दूरे स्थितास्ता मुरलीनिनादैः
स्वसौरभैर्मुद्रितकर्णपालीः
नासारुधो हृद्गत एव कर्षन्
गोविन्ददेवः शरणं ममास्तु
(६)
नवीनलावण्यभरैः क्षितौ श्री
रूपानुरागाम्बुनिधिप्रकाशैः
सतश्चमत्कारवतः प्रकुर्वन्
गोविन्ददेवः शरणं ममास्तु
(७)
कल्पद्रुमाधोमणिमन्दिरान्तः
श्रीयोगपीठाम्बुरुहास्यया स्वम्
उपासयंस्तत्रविदोऽपि मन्त्रैर्
गोविन्ददेवः शरणं ममास्तु
(८)
महाभिषेकक्षणसर्ववासोऽ
लङ्कृत्यङ्गीकरणोच्छलन्त्या
सर्वाङ्गभासाकुलयंस्त्रिलोकीं
गोविन्ददेवः शरणं ममास्तु
(९)
गोविन्ददेवाष्टकमेतदुच्चैः
पठेत्तदीयाङ्घ्रिनिविष्टवीर्यः
तं मज्जयन्नेव कृपाप्रवाहैर्
गोविन्ददेवः शरणं ममास्तु
UPDATED: January 29, 2017