Indradi Deva Vrndesa #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ I
Song Name: Indradi Deva Vrndesa
Official Name: Nrsimha Kavaca Stotram Trailokya Vijaya
Author: Vyasadeva
Book Name: Brahma Samhita
Language: Sanskrit
LYRICS:
(१)
(श्रीनारद उवाच)
इन्द्रादिदेववृन्देश
तातेश्वर जगत्पते
महाविष्णोर्नृसिंहस्य
कवचं ब्रूहि मे प्रभो
यस्य प्रपठनाद्विद्वान्
त्रैलोक्यविजयी भवेत्
(२)
(श्रीब्रह्मोवाच)
शृणु नारद वक्ष्यामि
पुत्रश्रेष्ठ तपोधन
कवचं नरसिंहस्य
त्रैलोक्यविजयाभिदम्
(३)
यस्य प्रपठनाद्वग्मी
त्रैलोक्यविजयी भवेत्
स्रष्ठाहं जगतां वत्स
पठनाद्धरणाद्यतः
(४)
लक्ष्मीर्जगत्त्रयं पाति
संहर्ता च महेश्वरः
पठनाद्धनाराद्देव
बभूवुश्च दिगीश्वराः
(५)
ब्रह्ममन्त्रमयं वक्ष्ये
भूतादिविनिवारकम्
यस्य प्रसादाद्दुर्वासास्
त्रैलोक्यविजयी मुनिः
पठनाद्धरणाद्यस्य
शास्ता च क्रोधभैरवः
(६)
त्रैलोक्यविजयस्यासा
कवचस्य प्रजापतिः
ऋषिश्छन्दश्च गायत्री
नृसिंहो देवता विभुः
(७)
क्ष्रौं बीजं मे शिरः पातु
चन्द्रवर्णो महामनुः
(८ भाग १)
उग्रं वीरं महाविष्णुं
ज्वलन्तं सर्वतोमुखम्
नृसिंहं भीषणं भद्रं
मृत्युमृत्युं नमाम्यहम्
(८ भाग २)
द्वात्रिंशदक्षरो मन्त्रो
मन्त्रराजः सुरद्रुमः
(९)
कण्ठं पातु ध्रुवं क्ष्रौं हृद्
भगवते चक्षुषि मम
नरसिंहाय च ज्वालामालिने
पातु मस्तकम्
(१०)
दीप्तदंष्ट्राय च तथाग्नि
नेत्राय च नासिकम्
सर्वरक्षोघ्नाय सर्वभूत
विनाशनाय च
(११)
सर्वज्वरविनाशाय
दह दह पचद्वयम्
रक्ष रक्ष सर्वमन्त्र
स्वाहा पातु मुखं मम
(१२)
तारादि रामचन्द्राय
नमः पायाद्गुडां मम
क्लीं पायात्पाणियुग्मं च
तारं नमः पदं ततः
नारायणाय पार्श्वं च
अं ह्रीं क्रौं क्ष्रौं च हुं फट्
(१३)
वराक्षरः कटिं पातु
ओं नमो भगवते पदम्
वासुदेवाय च पृष्ठं
क्लीं कृष्णाय उरुद्वयम्
(१४)
क्लीं कृष्णाय सदा पातु
जानुनी च मनूत्तमः
क्लीं ग्लौं क्लीं श्यामलाङ्गाय
नमः पायात्पदद्वयम्
(१५)
क्ष्रौं नरसिंहाय क्ष्रौं च
सर्वाङ्गं मे सदावतु
(१६)
इति ते कथितं वत्स
सर्वमन्त्रौघविग्रहम्
तव स्नेहान्मयाख्यातं
प्रवक्तव्यं न कस्यचित्
(१७)
गुरुपूजां विधायाथ
गृह्णीयात्कवचं ततः
सर्वपुण्ययुतो भूत्वा
सर्वसिद्धियुतो भवेत्
(१८)
शतमष्टोत्तरं चैव
पुरश्चर्या विधिः स्मृतः
हवनादीन्दशांशेन
कृत्वा साधकसत्तमः
(१९)
ततस्तु सिद्धकवचः
पुण्यात्मा मदनोपमम्
स्पर्धमुद्धूय भवने
लक्ष्मीर्वाणी वसेत्ततः
(२०)
पुष्पाञ्जल्यष्टकं दत्त्वा
मूलेनैव पठेत्सकृत्
अपि वर्षसहस्राणां
पूजायाः फलमाप्नुयात्
(२१)
भूर्जे विलिख्य गुटिकां
स्वर्णस्थं धारयेद्यदि
कण्ठे व दक्षिणे बाहौ
नरसिंहो भवेत्स्वयम्
(२२)
योषिद्वामभुजे चैव
पुरुषो दक्षिणे करे
विभृयात्कवचं पुण्यं
सर्वसिद्धियुतो भवेत्
(२३)
काकवन्ध्या च या नारी
मृतवत्सा च या भवेत्
जन्मवन्ध्या नष्टपुत्रा
बहुपुत्रवती भवेत्
(२४)
कवचस्य प्रसादेन
जीवन्मुक्तो भवेन्नरः
त्रैलोक्यं क्षोभयत्येव
त्रैलोक्यविजयी भवेत्
(२५)
भूतप्रेतपिशाचश्च
राक्षसा दानवाश्च ये
तं दृष्ट्वा प्रपलायन्ते
देशाद्देशान्तरं ध्रुवम्
(२६)
यस्मिन्गेहे च कवचं
ग्रामे वा यदि तिष्ठति
तं देशं तु परित्यज्य
प्रयान्ति चातिदूरतः
UPDATED: October 28, 2015