Goloka Dhamadhipatih Paresvarah #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ G
Song Name: Goloka Dhamadhipatih Paresvarah
Official Name: Balabhadra Stotra Kavaca; Canto 8 Chapter 12 Verse 4 to 13
Author: Vyasadeva
Book Name: Garga Samhita
Language: Sanskrit
LYRICS:
(१)
गोलोकधामाधिपतिः परेश्वरः
परेषु मां पातु पवित्रकीर्तनः
भूमण्डलं सर्षपवद्विलक्ष्यते
यन्मूर्ध्नि मां पातु स भूमिमण्डले
(२)
सेनासु मां रक्षतु सीरपाणिर्
युद्धे सदा रक्षतु मां हली च
दुर्गेषु चाव्यान्मुसली सदा मां
वनेषु सङ्कर्षण आदिदेवः
(३)
कलिन्दजावेगहरो जलेषु
नीलाम्बरो रक्षतु मां सदाग्नौ
वायौ च रामोऽवतु खे बलश्च
महार्णवेऽनन्तवपुः सदा माम्
(४)
श्रीवासुदेवोऽवतु पर्वतेषु
सहस्रशीर्षा च महाविवादे
रोगेषु मां रक्षतु रौहिणेयो
मां कामपालोऽवतु व विपत्सु
(५)
कामात्सदा रक्षतु धेनुकारिः
क्रोधात्सदा मां द्विविदप्रहारी
लोभात्सदा रक्षतु बल्वलारिर्
मोहात्सदा मां किल मागधारिः
(६)
प्रातः सदा रक्षतु वृष्णिधुर्यः
प्राह्ने सदा मां मथुरापुरेन्द्रः
मध्यन्दिने गोपसखः प्रपातु
स्वरात्पराह्नेऽवतु मां सदैव
(७)
सायं फणीन्द्रोऽवतु मां सदैव
परात्परो रक्षतु मां प्रदोषे
पूर्णे निशीथे च दुरन्तवीर्यः
प्रत्यूषकालेऽवतु मां सदैव
(८)
विदिक्षु मां रक्षतु रेवतीपतिर्
दीक्षु प्रलम्बारिरधो यदूद्वहः
ऊर्ध्वं सदा मां बलभद्र आरात्
तथा समन्ताद्बलदेव एव हि
(९)
अन्तः सदाव्यात्पुरुषोत्तमो बहिर्
नागेन्द्रलीलोऽवतु मां महाबलः
सदान्तरात्मा च वसन्हरिः स्वयं
प्रपातु पूर्णः परमेश्वरो महान्
(१०)
देवासुराणां भयनाशनं च
हुताशनं पापचयेन्धनानाम्
विनाशनं विघ्नघतस्य विद्धि
सिद्धासनं वर्मवरं बलस्य
UPDATED: January 29, 2017