Gangeya Campeya #

Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ G
Song Name: Gangeya Campeya
Official Name: Sri Vrndadevyastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
गाङ्गेयचाम्पेयतडिद्विनिन्दि
रोचिःप्रवाहस्नपितात्मवृन्दे!
बन्धूकबन्धुद्युतिदिव्यवासो
वृन्दे! नमस्ते चरणारविन्दम्
(२)
बिम्बाधरोदित्वरमन्दहास्य
नासाग्रमुक्ताद्युतिदीपितास्ये
विचित्ररत्नाभरणाश्रियाढ्ये!
वृन्दे! नमस्ते चरणारविन्दम्
(३)
समस्तवैकुण्ठशिरोमणौ श्री
कृष्णस्य वृन्दावनधन्यधाम्नि
दत्ताधिकारे वृषभानुपुत्र्या
वृन्दे! नमस्ते चरणारविन्दम्
(४)
त्वदाज्ञया पल्लवपुष्पभृङ्ग
मृगादिभिर्माधवकेलिकुञ्जाः
मध्वादिभिर्भान्ति विभूष्यमाणा
वृन्दे! नमस्ते चरणारविन्दम्
(५)
त्वदीयदूत्येन निकुञ्जयुनोर्
अत्युत्कयोः केलिविलाससिद्धिः
त्वत्सौभगं केन निरुच्यतां तद्
वृन्दे! नमस्ते चरणारविन्दम्
(६)
रासाभिलाषो वसतिश्च वृन्दा
वने त्वदीशाङ्घ्रिसरोजसेवा
लभ्या च पुंसां कृपया तवैव
वृन्दे! नमस्ते चरणारविन्दम्
(७)
त्वं कीर्त्यसे सात्वततन्त्राविद्भिर्
लीलाभिधाना किल कृष्णशक्तिः
तवैव मूर्तिस्तुलसी नृलोके
वृन्दे! नमस्ते चरणारविन्दम्
(८)
भक्त्या विहीना अपराधलक्षैः
क्षिप्ताश्च कामादितरङ्गमध्ये
कृपामयि! त्वां शरणं प्रपन्ना
वृन्दे! नमस्ते चरणारविन्दम्
(९)
वृन्दाष्टकं यः शृणुयात्पठेद्वा
वृन्दावनाधीशपदाब्जभृङ्गः
स प्राप्य वृन्दावननित्यवासं
तत्प्रेमसेवां लभते कृतार्थः
UPDATED: October 26, 2015