Gadadhara Yada Param Sa Kila #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ G
Song Name: Gadadhara Yada Param Sa Kila
Official Name: Sacinandana Vijayastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
गदाधर यदा परः स किल कश्चनालोकितो
मया श्रितगयाध्वना मधुरमूर्तिरेकस्तदा
नवाम्बुद इव ब्रुवन्धृतनवाम्बुदो नेत्रयो
र्लुठन्भुवि निरुद्धवाग्विजयते शचीनन्दनः
(२)
अलक्षितचरीं हरीत्युदितमात्रतः किं दशाम्
असावतिबुधाग्रणीरतुलकम्पसम्पादिकाम्
व्रजन्नहह मोदते न पुनरत्र शास्त्रेष्विति
स्वशिष्यगणवेष्टितो विजयते शचीनन्दनः
(३)
हा हा किमिदमुच्यते पठ पठात्र कृष्णं मुहु
र्विना तमिह साधुतां दधति किं बुधा धातवः
प्रसिद्ध इह वर्णसङ्घटितसम्यगाम्नायकः
स्वनाम्नि यदिति ब्रुवन्विजयते शचीनन्दनः
(४)
नवाम्बुजदले यदीक्षणसवर्णतादीर्घते
सदा स्वहृदि भाव्यतां सपदि साध्यतां तत्पदम्
स पाठयति विस्मितान्स्मितमुखः स्वशिष्यानिति
प्रतिप्रकरणं प्रभुर्विजयते शचीनन्दनः
(५)
क्व यानि करवाणि किं क्व नु मया हरिर्लभ्यतां
तमुद्दिशतु कः सखे कथय कः प्रपद्येत माम्
इति द्रवति घूर्णते कलितभक्तकण्ठः शुचा
स मूर्च्छयति मातरं विजयते शचीनन्दनः
(६)
स्मरार्बुददुरापया तनुरुचिच्छटाच्छायया
तमः कलितमःकृतं निखिलमेव निर्मूलयन्
नृणां नयनसौभगं दिविषदां मुखैस्तारयन्
लसन्नधिधरः प्रभुर्विजयते शचीनन्दनः
(७)
अयं कनकभूधरः प्रणयरत्नमुच्चैः किरन्
कृपातुरतया व्रजन्नभवदत्र विश्वम्भरः
यदक्षि पथसञ्चरत्सुरधुनीप्रवाहैर्निजं
परं च जगदार्द्रयन्विजयते शचीनन्दनः
(८)
गतोऽस्मि मधुरां मम प्रियतमा विशाखा सखी
गता नु बत किं दशां वद कथं नु वेदानि ताम
इतीव स निजेच्छया व्रजपतेः सुतः प्रापितस्
तदीयरसचर्वणां विजयते शचीनन्दनः
(९)
इदं पठति योऽष्टकं गुणनिधे शचीनन्दन
प्रभो तव पदाम्बुजे स्फुरदमन्दविश्रम्भवान्
तमुज्ज्वलमतिं निजप्रणयरूपवर्गानुगं
विधाय निजधामनि द्रुतमुरीकुरुष्व स्वयम्
UPDATED: January 11, 2017