Esa Lila Vibhor Nitya Goloke #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ E
Song Name: Esa Lila Vibhor Nitya Goloke
Official Name: Chapter 7; Krsna Lila Tattva Vicarah
Author: Bhaktivinoda Thakura
Book Name: Krsna Samhita
Language: Sanskrit
LYRICS:
(१)
एषा लीला विभोर्नित्या गोलोके शुद्धधामनि
स्वरूपभावसम्पन्ना चिद्रूपवर्तिनी किल
(२)
जीवे साम्बन्धिकी सेयं देशकालविचारतः
प्रवर्तेत द्विधा साऽपि पात्रभेदक्रमादिह
(३)
व्यक्तिनिष्ठा भवेदेका सर्वनिष्ठाऽपरा मता
भक्तिमद्धृदये सा तु व्यक्तिनिष्ठा प्रकाशते
(४)
या लीला सर्वनिष्ठा तु समाजज्ञानवर्धनात्
नारदव्यासचित्तेषु द्वापरे सा प्रवर्तिता
(५)
द्वारकायां हरिः पूर्णो मध्ये पूर्णतरः स्मृतः
मथुरायां विजानीयाद्व्रजे पूर्णतमः प्रभुः
(६)
पूर्णत्वं कल्पितं कृष्णे माधुर्यशुद्धताक्रमात्
व्रजलीलाविलासो हि जीवानां श्रेष्ठभावना
(७)
गोपिकारमणं तस्य भावानां श्रेष्ठ उच्यते
श्रीराधारमणं तत्र सर्वोर्ध्वभावना मता
(८)
एतस्य रसरूपस्य भावस्य चिद्गतस्य च
आस्वादनपरा ये तु ते नरा नित्यधर्मिनः
(९)
सामान्यवाक्ययोगे तु रसानां कुत्र विस्तृतिः
अतो वै कविभिः कृष्णलीलातत्त्वं वितन्यते
(१०)
ईशो ध्यातो बृहज्ज्ञातं यज्ञेशो यजितस्तथा
न राति परमानन्दं यथा कृष्णः प्रसेवितः
(११)
विदन्ति तत्त्वतः कृष्णं पठित्वेदं सुवैष्णवाः
लभन्ते तत्फलं यत्तु लभेद्भागवते नरः
UPDATED: February 1, 2017