Skip to main content

Deva Siddha Mukta Yukta

·561 words·3 mins
kksongs
Author
kksongs
Un-official KKsongs

Deva Siddha Mukta Yukta
#

http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org

Home Song Lyrics D

Song Name: Deva Siddha Mukta Yukta

Official Name: Premadhama Deva Stotram

Author: Sridhara Goswami

Book Name: None

Language: Sanskrit

LYRICS:

(१)

देवसिद्धमुक्तयुक्तभक्तवृन्दवन्दितं

पापतापदावदाहदग्धदुःखखण्डितम्

कृष्णनामसीधुधामधन्यदानसागरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(२)

स्वर्णकोटिदर्पणाभदेहवर्णगौरवं

पद्मपारिजातगन्धवन्दिताङ्गसौरभम्

कोटिकाममूर्च्छिताङ्घ्रिरूपरासरङ्गरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(३)

प्रेमनामदानजन्यपञ्चतत्त्वकात्मकं

साङ्गदिव्यपार्षदास्त्रवैभवावतारकम्

श्यामगौरनामगाननृत्यमत्तनागरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(४)

शान्तिपुर्यधीशकल्यधर्मदुःखदुःसहं

जीवदुःखहानभक्तसौख्यदानविग्रहम्

कल्यघौघनाशकृष्णनामसीधुसञ्चरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(५)

द्वीपनव्यगाङ्गबङ्गजन्मकर्मदर्शितं

श्रीनिवासवासधन्यनामरासहर्षितम्

श्री हरिप्रियेशपूज्यधीशचीपुरन्दरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(६)

श्री शचीदुलालबाल्यबालसङ्गचन्चलं

आकुमारसर्वशास्त्रदक्षतर्कमङ्गलम्

छात्रसङ्गरङ्गदिग्जिगीषुदर्पसंहरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(७)

वर्ज्यपात्रसारमेयसर्पसङ्गखेलनं

स्कन्धवाहिचौरतीर्थविप्रचित्रलीलनम्

कृष्णनाममात्रबाल्यकोपशान्ति सौकरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(८)

स्नानगाङ्गवारिबालसङ्गरङ्गखेलनं

बालिकादिपारिहास्यभङ्गिबाल्यलीलनम्

कूततर्कछात्रशिक्षकादिवादतत्परं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(९)

श्री निमैपण्डितेतिनामदेशवन्दितं

नव्यतर्कदक्षलक्षदम्भिदम्भखण्डितम्

स्थापितार्थखण्डखण्डखण्डितार्थसम्भरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(१०)

श्लोकगाङ्गवन्दनार्थदिग्जिगीषुभाषितं

व्यत्यलङ्कृतादिदोषतर्कितार्थदूषितम्

ध्वस्तयुक्तिरुद्धबुद्धिदत्तधीमदादरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(११)

सूत्रवृत्तिटिप्पनीष्टसूक्ष्मवाचनाद्भुतं

धातुमात्रकृष्णशक्तिसर्वविश्वसम्भृतम्

रुद्धबुद्धिपण्डितौघनान्ययुक्तिनिर्धरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(१२)

कृष्णदृष्टिपातहेतुशव्दकार्थयोजनं

स्फोटवादशृङ्खलैकभित्तिकृष्णबीक्षणम्

स्थूलसूक्ष्ममूललक्ष्यकृष्णसौख्यसम्भरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(१३)

प्रेमरङ्गपाठभङ्गछात्रकाकुकातरं

छात्रसङ्गहस्ततालकीर्तनाद्यसञ्चरम्

कृष्णनामसीधुसिन्धुमग्नदिक्चराचरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(१४)

आर्यधर्मपाललब्धदीक्षकृष्णकीर्तनं

लक्षलक्षभक्तगीतवाद्यदिव्यनर्तनम्

धर्मकर्मनाशदस्युदुष्टदुष्क्र्टोद्धरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(१५)

म्लेच्छराजनामबाधभक्तभीतिभञ्जनं

लक्षलक्षदीपनैशकोटिकण्ठकीर्तनम्

श्रीमृदङ्गतालवाद्यनृत्यकाजिनिस्तरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(१६)

लक्षलोचनाश्रुवर्षहर्षकेशकर्तनं

कोटिकण्ठकृष्णकीर्तनाध्यदण्डधारनम्

न्यासिवेशसर्वदेशहाहुताशकातरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(१७)

श्रीयतीशभक्तवेशराढदेशचारनं

कृष्णचैतन्याख्यकृष्णनामजीवतारनम्

भावविभ्रमात्ममत्तधावमानभूधरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(१८)

श्रीगदाधरादिनित्यानन्दसङ्गवर्धनं

अद्वयाख्यभक्तमुख्यवाञ्छितार्थसाधनम्

क्षेत्रवाससाभिलाषमातृतोषतत्परं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(१९)

न्यासिराजनीलशैलवाससार्वभौमपं

दाक्षिनात्यतीर्थजातभक्तकल्पपादपम्

राममेघरागभक्तिवृष्तिशक्तिसञ्चरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(२०)

ध्वस्तसार्वभौमवादनव्यतर्कशाङ्करं

ध्वस्ततद्विवर्तवाददानवीयडम्वरम्

दर्शितार्थसर्वशास्त्रकृष्णभक्तिमन्दिरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(२१)

प्रेमधामदिव्यदीर्घदेहदेवनन्दितं

हेमकञ्जपुञ्जनिन्दिकान्तिचन्द्रवन्दितम्

नामगाननृत्यनव्यदिव्यभावमन्दिरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(२२)

कृष्णकृष्णकृष्णकृष्णकृष्णनामकीर्तनं

रामरामगानरम्यदिव्यछन्दनर्तनम्

यत्रतत्रकृष्णनामदानलोकनिस्तरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(२३)

गोदवर्यवामतीररामानन्दसंवदं

ज्ञानकर्ममुक्तमर्मरागभक्तिसम्पदम्

पारकीयकान्तकृष्णभावसेवनाकरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(२४)

दास्यसख्यवात्स्यकान्तसेवनोत्तरोत्तरं

श्रेष्ठपारकीयराधिकाङ्घ्रिभक्तिसुन्दरम्

श्रीव्रजस्वसिद्धदिव्यकामकृष्णतत्परं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(२५)

शान्तमुक्तभृत्यतृप्तमित्रमत्तदर्शितं

स्निग्धमुग्धशिष्टमिष्टसुष्ठकुण्ठहर्षितम्

तन्त्रमुक्तवाम्यरागसर्वसेवनोत्तरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(२६)

आत्मनव्यतत्त्वदिव्यरायभाग्यदर्शितं

श्यामगोपराधिकाप्तकोक्तगुप्तचेष्टितम्

मुर्च्छिताङ्घ्रिरामरायबोधितात्मकिङ्करं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(२७)

नष्टकुष्ठकूर्मविप्ररूपभक्तितोषणम्

आमदासविप्रमोहमुक्तभक्तपोषणम्

कालकृष्णदासमुक्तभट्टथारिपिञ्जरं

प्रेमधाम देवमेव नौमि गौरसुन्दरम्

(२८)

रङ्गनाथभट्टभक्तितुष्टभङ्गिभाशणं

लक्ष्म्यगम्यकृष्णरासगोपिकैकपोषणम्

लक्ष्म्यभीष्टकृष्णशीर्षसाध्यसाधनाकरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(२९)

ब्रह्मसंहिताख्यकृष्णभक्तिशास्त्रदायकं

कृष्णकर्णसीधुनामकृष्णकाव्यगायकम्

श्रीप्रतापरुद्रराजशीर्षसेव्यमन्दिरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(३०)

श्रीरथाग्रभक्तगीतदिव्यनर्त्तनाद्भुतं

यात्रिपात्रमित्ररुद्रराजहृच्चमत्कृतम्

गुण्डिचागमादितत्त्वरूपकाव्यसञ्चरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(३१)

प्रेममुग्धरुद्रराजशौर्य्यविर्य्यविक्रमं

प्रार्थिताङ्घ्रिवर्जितान्यसर्वधर्मसङ्गमम्

लुण्ठितप्रतापशीर्षपादधूलिधूसरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(३२)

दाक्षिनात्यसुप्रसिद्धपण्डितौघपूजितं

श्रेष्ठराजराजपात्रशीर्षभक्तिभूषितम्

देशमातृशेषदर्शनार्थिगौरगोचरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(३३)

गौरगर्विसर्वगौडगौरबार्थसज्जितं

शाष्त्रशाष्त्रदक्षदुष्टनास्तिकादिलज्जितम्

मुह्यमानमातृकादिदेहजीवसञ्चरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(३४)

न्यासपञ्चवर्षपूर्णजन्मभूमिदर्शनं

कोटिकोटिलोकलुब्धमुग्धदृष्टिकर्षणम्

कोटिकण्ठकृष्णनामघोषभेदिताम्बरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(३५)

आर्तभक्तशोकशान्तितापिपापिपावनं

लक्षकोटिलोकसङ्गकृष्णधामधावनम्

रामकेलिसाग्रजातरूपकर्षणादरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(३६)

व्याघ्रवारणैनवन्यजन्तुकृष्णगायकं

प्रेमनृत्यभावमत्तझाडखण्डनायकम्

दुर्गवन्यमार्गभट्टमात्रसङ्गसौकरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(३७)

गाङ्गयामुनादिबिन्दुमाधवादिमाननं

माथुरार्त्तचित्तयामुनाग्रभागधावनम्

स्मारितव्रजातितीव्रविप्रलम्भकातरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(३८)

माधवेन्द्रविप्रलम्भमाथुरेष्टमाननं

प्रेमधामदृष्टकामपूर्व्वकुञ्जकाननम्

गोकुलादिगोष्ठगोपगोपिकाप्रियङ्करं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(३९)

प्रेमगुञ्जनालिपुञ्जपुष्पपुञ्जरञ्जितं

गीतनृत्यदक्षपक्षिवृक्षलक्षवन्दितम्

गोवृषादिनाददीप्तपूर्व्वमोदमेदुरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(४०)

प्रेमबुद्धरुद्धबुद्धिमत्तनृत्यकीर्त्तनं

प्लाविताश्रुकाञ्चनाङ्गवासचातुरङ्गनम्

कृष्णकृष्णरावभावहास्यलास्यभास्वरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(४१)

प्रेममुग्धनृत्यकीर्त्तनाकुलारिटान्तिकं

स्नानधन्यवारिधान्यभूमिकुण्डदेशकम्

प्रेमकुण्डराधिकाख्यशास्त्रवन्दनादरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(४२)

तिन्तिडीतलस्थयामुनोर्म्मिभावनाप्लुतं

निर्जनैकराधिकात्मभाववैभवावृतम्

श्यामराधिकाप्तगौरतत्त्वभित्तिकाकरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(४३)

शारिकाशुकोक्तिकौतुकाढ्यलास्यलापितं

राधिकाव्यतीतकामदेवकाममोहितम्

प्रेमवश्यकृष्णभावभक्तहृच्चमत्करं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(४४)

श्रीप्रयागधामरूपरागभक्तिसञ्चरं

श्रीसनातनादिकाशिभक्तिशिक्षणादरम्

वैष्णवानुरोधभेदनिर्व्विशेषपञ्जरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(४५)

न्यासिलक्षनायकप्रकाशानन्दतारकं

न्यासिराशिकाशिवासिकृष्णनामपारकम्

व्यासनारदादिदत्तवेदधीधुरन्धरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(४६)

ब्रह्मसूत्रभाष्यकृष्णनारदोपदेशकं

श्लोकतुर्य्यभाषणान्तकृष्णसम्प्रकाशकम्

शब्दवर्त्तनान्तहेतुनामजीवनिस्तरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(४७)

आत्मरामवाचनादिनिर्व्विशेषखण्डनं

श्रौतवाक्यसार्थकैकचिद्विलासमण्डनम्

दिव्यकृष्णविग्रहादिगौणबुद्धिधिक्करं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(४८)

ब्रह्मपारमात्म्यलक्षणाद्वयैकवाचनं

श्रीव्रजस्वसिद्धनन्दलीलनन्दनन्दनम्

श्रीरसस्वरूपरासलीलगोपसुन्दरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(४९)

राधिकाविनोदमात्रतत्त्वलक्षणान्वयं

साधुसङ्गकृष्णनामसाधनैकनिश्चयम्

प्रेमसेवनैकमात्रसाध्यकृष्णतत्परं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(५०)

आत्मरामवाचनैकषष्टिकार्थदर्शितं

रुद्रसंख्यशब्दजातयद्यदर्थसम्भृतम्

सर्व्वसर्व्वयुक्ततत्तदर्थभुरिदाकरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(५१)

श्री सनातनानुरूपजीवसम्प्रदायकं

लुप्ततीर्थशुद्धभक्तिशास्त्रसुप्रचारकम्

नीलशैलनाथपीठनैजकार्य्यसौकरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(५२)

त्यागबाह्यभोगबुद्धितीव्रदण्डनिन्दनं

रायशुद्धकृष्णकामसेवनाभिनन्दनम्

रायरागसेवनोक्तभाग्यकोटिदुष्करं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(५३)

श्रीप्रयागभट्टवल्लभैकनिष्ठसेवनं

नीलशैलभट्टदत्तरागमार्गराधनम्

श्री गदाधरार्पिताधिकारमन्त्रमाधुरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(५४)

श्रीस्वरूपरायसङ्गगाम्भिरान्त्यलीलनं

द्वादशाब्दवह्निगर्भविप्रलम्भशीलनम्

राधिकाधिरूढभावकान्तिकृष्णकुञ्जरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(५५)

श्रीस्वरूपकण्ठलग्नमाथुरप्रलापकं

राधिकानुवेदनार्त्ततीव्रविप्रलम्भकम्

स्वप्नवत्समाधिदृष्टदिव्यवर्णनातुरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(५६)

सात्विकादिभावचिह्नदेहदिव्यसौष्ठवं

कूर्म्मधर्म्मभिन्नसन्धिगात्रपुष्पपेलवम्

ह्रस्वदीर्घपद्मगन्धरक्तपीतपाण्डुरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(५७)

तीव्रविप्रलम्भमुग्धमन्दिराग्रधावितं

कूर्म्मरूपदिव्यगन्धलुब्धधेनुवेष्टितम्

वर्णितालिकूलकृष्णकेलिशैलकन्दरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(५८)

इन्दुसिन्धुनृत्यदीप्तकृष्णकेलिमोहितं

ऊर्म्मिशीर्षसुप्तदेहवातरङ्गवाहितम्

यामुनालिकृष्णकेलिमग्नसौख्यसागरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(५९)

रात्रिशेषसौम्यवेशशायितार्द्रसैकतं

भिन्नसन्धिदीर्घदेहपेलवातिदैवतम्

श्रान्तभक्तचक्रतीर्थहृष्टदृष्टिगोचरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(६०)

आर्त्तभक्तकण्ठकृष्णनामकर्णहृद्गतं

लग्नसन्धिसुष्ठुदेहसर्व्वपूर्व्वसम्मतम्

अर्धबाह्यभावकृष्णकेलिवर्णनातुरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(६१)

यामुनाम्बुकृष्णराधिकालिकेलिमण्डलं

व्यक्तगुप्तदृप्ततृप्तभङ्गिमादनाकुलम्

गूढदिव्यमर्म्ममोदमूर्च्छनाचमत्करं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(६२)

आस्यघर्षणादिचाटकाद्रिसिन्धुलीलनं

भक्तमर्म्मभेदितीव्रदुःखसौक्यखेलनम्

अत्यचिन्त्यदिव्यवैभवाश्रितैकशङ्करं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(६३)

श्रोत्रनेत्रगत्यतीतबोधरोधिताद्भुतं

प्रेमलभ्यभावसिद्धचेतनाचमत्कृतम्

ब्रह्मशम्भुवेदतन्त्रमृग्यसत्यसुन्दरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(६४)

विप्रशूद्रविज्षमूर्खयावनादिनामदं

वित्तविक्रमोच्चनीचसज्जनैकसम्पदम्

स्त्रीपुमादिनिर्व्विवादसार्व्ववादिकोद्धरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(६५)

सिन्धुसून्यवेदचन्द्रशाककुम्भपूर्णिमा

सान्ध्यचान्द्रकोपरागजातगौरचन्द्रमा

स्नानदानकृष्णनामसङ्गतत्परात्परं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(६६)

आत्मसिद्धसावलीलपूर्णसौख्यलक्षणं

स्वानुभावमत्तनृत्यकीर्त्तनात्मवण्टनम्

अद्वयैकलक्ष्यपूर्णतत्त्वतत्परात्परं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(६७)

श्रीपुरीश्वरानुकम्पिलब्धदीक्षदैवतं

केशवाख्यभारतीसकाशकेशरक्षितम्

माधवानुधीकिशोरकृष्णसेवनादरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(६८)

सिन्धुबिन्दुवेदचन्द्रशाकफाल्गुनोदितं

न्याससोमनेत्रवेदचन्द्रशाकबोधितम्

वाणवाणवेदचन्द्रशाकलोचनान्तरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(६९)

श्रीस्वरूपरायसङ्गहर्षशेषघोषणं

शिक्षणाष्टकाख्यकृष्णकीर्त्तनैकपोषणम्

प्रेमनाममात्रविश्वजीवनैकसम्भरं

प्रेमधामदेवमेव नौमिगौरसुन्दरम्

(७०)

प्रेम हेमदेव देहिदासरेष मन्यतां

क्षम्यतां महापराधराशिरेषगण्यताम्

रूपकिङ्करेषु रामानन्ददाससम्भरं

प्रेमधामदेवमेव नौमि गौरसुन्दरम्

(७१)

सश्रद्धः सप्तदशकं प्रेमधामेतिनामकम्

स्तवं को ऽपि पठन्गौरं राधाश्याममयं व्रजेत्

(७२)

पञ्चमे शतगौराब्दे श्रीसिद्धान्तसरस्वती

श्रीधरः को ऽपि तच् छिष्यस्त्रिदण्डीनौतिसुन्दरम्

UPDATED: September 25, 2016