Deharbudani Bhagavan #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ D
Song Name: Deharbudani Bhagavan
Official Name: Anuraga Valli
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
देहार्बुदानि भगवान्! युगपत्प्रयच्छ
वक्त्रार्बुदानि च पुनः प्रतिदेहएव
जिह्वार्बुदानि कृपया प्रतिवक्त्रएव
नृत्यन्तु तेषु तव नाथ! घुणार्बुदानि
(२)
किआत्मना? यत्र न देहकोट्यो
देहेन किं? यत्र न वक्त्रकोट्यः
वक्त्रेण किं? यत्र न कोटिजिह्वाः
किं जिह्वया? यत्र न नामकोट्यः
(३)
आत्मास्तु नित्यं शतदेहवर्ती
देहस्तु नाथास्तु सहस्रवक्त्रः
वक्त्रं सदा राजतु लक्षजिह्वं
गृह्णातु जिह्वा तव नामकोटिम्
(४)
यदा यदा माधव! यत्र यत्र
गायन्ति ये ये तव नामलीलाः
तत्रैव कर्णायुतधार्यमाणा
स्तास्ते सुधा नित्याहं धयानि
(५)
कर्णायुतस्यैव भवन्तु लक्ष
कोट्यो रसज्ञा भगवंस्तदैव
येनैव लीलाः शृणवानि नित्यं
तेनैव गायानि ततः सुखं मे
(६)
कर्णायुतस्येक्षटकोटिरस्या
हृत्कोटिरस्या रसनार्बुदं स्तात्
श्रुत्वैव दृष्ट्वा तव रूपसिन्धु
मालिङ्ग्य माधुर्यम् अहो! धयानि
(७)
नेत्रार्बुदस्यैव भवन्तु कर्ण
नासारसज्ञा हृदयार्बुदं वा
सौन्दर्यसौस्वर्यसुगन्धपूर
माधुर्यसंश्लेषरसानुभूत्यै
(८)
त्वत्पार्श्वगत्यै पदकोटिरस्तु
सेवां विधातुं मम हस्तकोटिः
तां शिक्षितुं स्तादपि बुद्धिकोटि
रेतान्वरान्मे भगवन्! प्रयच्छ
UPDATED: February 3, 2017