Ceto Darpana Marjanam #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ C
Song Name: Ceto Darpana Marjanam
Official Name: Antya Lila Chapter 20 Verses 12, 16, 21, 29, 32, 36, 39, 47, and 65; Sri Siksastakam
Author: Krsnadasa Kaviraja
Book Name: Caitanya Caritamrta
(१)
चेतो-दर्पण-मार्जनं भव-महा-दावाग्नि-निर्वापणं
श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम्
आनन्दाम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं
सर्वात्म-स्नपनं परं विजयते श्री-कृष्ण-सण्कीर्तनम्
(२)
नाम्नामकारि बहुधा निज-सर्व-शक्तिस्
तत्रार्पिता नियमितः स्मरणे न कालः
एतादृशी तव कृपा भगवन्ममापि
दुर्दैवमीदृशमिहाजनि नानुरागः
(३)
तृणादऽपि सुनीचेन
तरोरऽपि सहिष्णुना
अमानिना मानदेन
कीर्तनीयः सदा हरिः
(४)
न धनं न जनं न सुन्दरीं
कवितां वा जगदीश कामये
मम जन्मनि जन्मनीश्वरे
भवताद् भक्तिर् अहैतुकी त्वयि
(५)
अयि नन्द-तनुज किङ्करं
पतितं मां विषमे भवाम्बुधौ
कृपया तव पाद-पङ्कज-
स्थित-धूली-सदृशं विचिन्तय
(६)
नयनं गलदश्रु-धारया
वदनं गद्गद-रुद्धया गिरा
पुलकैर्निचितं वपुः कदा
तव-नाम-ग्रहणे भविष्यति
(७)
युगायितं निमेषेण
चक्षुषा प्रावृषायितम्
शून्यायितं जगत्सर्वं
गोविन्द-विरहेण मे
(८)
आश्लिष्य वा पाद-रतां पिनष्टु माम्
अदर्शनान्मर्म-हताम्-हतां करोतु वा
यथा तथा वा विदधातु लम्पटो
मत्प्राण-नाथस्तु स एव नापरः
(९)
प्रभुर ’शिक्षाष्टक’-श्लोक येइ पडे, शुने
कृष्णे प्रेम-भक्ति तार बाड़े दिने-दिने
UPDATED: September 28, 2015