Skip to main content

Bhagavac Chakti Karyesu

·249 words·2 mins
kksongs
Author
kksongs
Un-official KKsongs

Bhagavac Chakti Karyesu
#

http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org

Home Song Lyrics B

Song Name: Bhagavac Chakti Karyesu

Official Name: Chapter 3; Avatara Lila Varnanam

Author: Bhaktivinoda Thakura

Book Name: Krsna Samhita

Language: Sanskrit

LYRICS:

(१)

भगवच्छक्तिकार्येषु त्रिविधेषु स्वशक्तिमान्

विलसन्वर्तते कृष्णश्चिज्जीवमायिकेषु च

(२)

चित्कार्येषु स्वयं कृष्णो जीवे तु परमात्मकः

जडे यज्ञेश्वरः पूज्यः सर्वकर्मफलप्रदः

(३)

सर्वांशी सर्वरूपी च सर्वावतारबीजकः

कृष्णस्तु भगवान्साक्षान्न तस्मात्पर एव हि

(४)

अचिन्त्यशक्तिसम्पन्नः स कृष्णः करुणामयः

मायाबद्धय्स जीवस्य क्षेमाय यत्नवान्सदा

(५)

यद्यद्भावगतो जीवस्तत्तद्भावगतो हरिः

अवतीर्णः स्वशक्त्या स क्रीडतीव जनैः सह

(६)

मत्स्येषु मत्स्यभावो हि कच्छपे कूर्मरूपकः

मेरुदण्डयुते जीवे वराहभाववान्हरिः

(७)

नृसिंहो मध्यभावो हि वामनः क्षुद्रमानवे

भार्गवोऽसभ्यवर्गेषु सभ्ये दाशरथिस्तथा

(८)

सर्वविज्ञानसम्पन्ने कृष्णस्तु भगवान्स्वयम्

तर्कनिष्ठनरे बुद्धो नास्तिके कल्किरेव च

(९)

अवतारा हरेर्भावाः क्रमोर्ध्वगतिमद्धृदि

न तेषां जन्मकर्मादौ प्रपञ्चो वर्तते क्वचित्

(१०)

जीवानां क्रमभावानां लक्षणानां विचारतः

कालो विभज्यते शास्त्रे दशधा ऋषिभिः पृथक्

(११)

तत्तत्कालगतो भावः कृष्णस्य लक्ष्यते हि यः

स एव कथ्यते विज्ञैरवतारो हरेः किल

(१२)

केनचिद्भज्यते कालश्चतुर्विंशतिधा विदा

अष्टादशविभागे वा चावतारविभागशः

(१३)

मायया रमणं तुच्छं कृष्णस्य चित्स्वरूपिणः

जीवस्य तत्त्वविज्ञाने रमणं तस्य सम्मतम्

(१४)

छायायाः सूर्यसम्भोगो यथा न घटते क्वचित्

मायायाः कृष्णसम्भोगस्तथा न स्यात्कदाचन

(१५)

मायाश्रितस्य जीवस्य हृदये कृष्णभावना

केवलं कृपया तस्य नान्यथा हि कदाचन

(१६)

श्रीकृष्णचरितं साक्षात्समाधिदर्शितं किल

न तत्र कल्पना मिथ्या नेतिहासो जडाश्रितः

(१७)

वयं तु चरितं तस्य वर्णयामो समासतः

तत्त्वतः कृपया कृष्णचैतन्यस्य महात्मनः

(१८)

सर्वेषामवताराणामर्थो बोध्यो यथा मया

केवलं कृष्णतत्त्वस्य चार्थो विज्ञापितोऽधुना

(१९)

वैष्णवाः सारसम्पन्नास्त्यक्त्वा वाक्यमलं मम

गृह्णन्तु सारसम्पत्तिं श्रीकृष्णचरितं मुदा

(२०)

वयं तु बहुयत्नेन न शक्ता देशकालतः

समुद्धर्तुं मनीषां नः प्रपञ्चपीडिता यतः

(२१)

तथापि गौरचन्द्रस्य कृपावारिनिषेवणात्

सर्वेषां हृदये कृष्णरसाभावो निवर्तताम्

UPDATED: February 1, 2017