Atraiva Vraja Bhavanam #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ A
Song Name: Atraiva Vraja Bhavanam
Official Name: Chapter 8; Vraja Bhava Vicarah
Author: Bhaktivinoda Thakura
Book Name: Krsna Samhita
Language: Sanskrit
LYRICS:
(१)
अत्रैव व्रजभावानां श्रेष्ठ्यमुक्तमशेषतः
मथुराद्वारकाभावास्तेषां पुष्टिकरा मताः
(२)
जीवस्य मङ्गलार्थाय व्रजभावो विविच्यते
यद्भावसङ्गतो जीवश्चामृतत्वाय कल्पते
(३)
अन्वयव्यतिरेकाभ्यां विविच्योऽयं मयाधुना
अन्वयात्पञ्च सम्बन्धाः शान्तदास्यादयश्च ये
(४)
केचित्तु व्रजराजस्य दासभागवताः सदा
अपरे सख्यभावाढ्याः श्रीदामसुबलाअदयः
(५)
यशोदारोहिणीनन्दाः वात्सल्यभावसंस्थिताः
राधाद्याः कान्तभावे तु वर्तन्ते रासमण्डले
(६)
वृन्दावनं विना नास्ति शुद्धसम्बन्धभावकः
अतो वै शुद्धजीवानां रम्ये वृन्दावने रतिः
(७)
तत्रैव कान्तभावस्य श्रेष्ठता शास्त्रसम्मता
जीवस्य नित्यधर्मोऽयं भगवद्भोग्यता मता
(८)
न तत्र कुण्ठता काचित्वर्तते जीवकृष्णयोः
अखण्डपरमानन्दः सदा स्यात्प्रीतिरूपधृक्
(९)
सम्भोगसुखपुष्ट्यर्थं विप्रलम्भोऽपि सम्मतः
मथुराद्वारकाचिन्ता व्रजभावविवर्धिनी
(१०)
प्रपञ्चबद्धजीवानां वैधधर्माश्रयात्पुरा
अधुना कृष्णसम्प्राप्तौ पारकीयरसाश्रयः
(११)
श्रीगोपीभावमाश्रित्य मञ्जरीसेवनं तदा
सखीनां सङ्गतिस्तस्मात्तस्माद्राधापदाश्रयः
(१२)
तत्रैव भावबाहुल्यान्महाभावो भवेद्ध्रुवम्
तत्रैव कृष्णसम्भोगः सर्वानन्दप्रदायकः
(१३)
एतस्यां व्रजभावानां सम्पत्तौ प्रतिबन्धकाः
अष्टादशविधाः सन्ति शत्रवः प्रीतिदूषकाः
(१४)
आदौ दुष्टगुरुप्राप्तिः पूतना स्तन्यदायिनी
वात्यारूपकुतर्कस्तु तृणावर्त इतीरितः
(१५)
तृतीये भारवाहित्वं शकटं बुद्धिमर्दकम्
चतुर्थे बालदोषाणां स्वरूपो वत्सरूपधृक्
(१६)
पञ्चमे धर्मकापट्यं नामापराधरूपकम्
बकरूपी महाधूर्तो वैष्णवानां विरोधकः
(१७)
तत्रैव सम्प्रदायानां बाह्यलिङ्गसमादरात्
दाम्भिकानां न सा प्रीतिः कृष्णे व्रजनिवासिनि
(१८)
नृशंसत्वं प्रचण्डत्वमघासुरस्वरूपकम्
षष्ठापराधरूपोऽयं वर्तते प्रतिबन्धकः
(१९)
बहुशास्त्रविचारेण यन्मोहो वर्तते सताम्
स एव सप्तमो लक्ष्यो ब्रह्मणो मोहने किल
(२०)
धेनुकः स्थूलबुद्धिः स्याद्गर्दभस्तालरोधकः
अष्टमे लक्ष्यते दोषः सम्प्रदाये सतां महान्
(२१)
इन्द्रियाणि भजन्त्येके त्यक्त्वा वैधविधिं शुभम्
नवमे वृषभास्तेऽपि नश्यन्ते कृष्णतेजसा
(२२)
खलता दशमे लक्ष्या कालीये सर्परूपके
सम्प्रदायविरोधोऽयं दावानलो विचिन्त्यते
(२३)
प्रलम्बो द्वादशे चौर्यमात्मनो ब्रह्मवादिनाम्
प्रविष्टः कृष्णदास्येऽपि वैष्णवानां सुतस्करः
(२४)
कर्मणः फलमन्वीक्ष्य देवेन्द्रादिप्रपूजनम्
त्रयोदशात्मको दोषो वर्जनीयः प्रयत्नतः
(२५)
चौर्यानृतमयो दोषो व्योमासुरस्वरूपकः
श्रीकृष्णप्रीतिपर्याप्तौ नराणां प्रतिबन्धकः
(२६)
वरुणालयसम्प्राप्तिर्नन्दस्य चित्तमादकम्
वर्जनीयं सदा सद्भिर्विस्मृतिर्ह्यात्मनो यतः
(२७)
प्रतिष्ठापरता भक्तिच्छलेन भोगकामना
शङ्खचूड इति प्रोक्तः षोडशः प्रतिबन्धकः
(२८)
आनन्दवर्धने किञ्चित्सायुज्यं भासते हृदि
तन्नन्दभक्षकः सर्पस्तेन मुक्तः सुवैष्णवः
(२९)
भक्तितेजःसमृद्ध्या तु स्वोत्कर्षज्ञानवान्नरः
कदाचिद्दुष्टबुद्ध्या तु केशिघ्नमवमन्यते
(३०)
दोषाश्चाष्टादश ह्येते भक्तानां शत्रवो हृदि
दमनीयाः प्रयत्नेन कृष्णानन्दनिषेविना
(३१)
ज्ञानिनां माथुरा दोषाः कर्मिणां पुरवर्तिनः
वर्जनीयाः सदा किन्तु भक्तानां व्रजदूषकाः
UPDATED: February 1, 2017