Asye Hasyam Tatra #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ A
Song Name: Asye Hasyam Tatra
Official Name: Gopinatha Devastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
आस्ये हास्यं तत्र माध्वीकमस्मिन्
वंशी तस्यां नादपीयूषसिन्धुः
तद्वीचीभिर्मज्जयन्भाति गोपीर्
गोपीनाथः पीनवक्षा गतिर्नः
(२)
शोणोष्णीषभ्राजिमुक्तास्रजोद्यत्
पिञ्छोत्तंसस्पन्दनेनापि नूनम्
हृन्नेत्रालीवृत्तिरत्नानि मुञ्चन्
गोपीनाथः पीनवक्षा गतिर्नः
(३)
बिभ्रद्वासः पीतं ऊरूरुकान्त्या
श्लीष्टं भास्वत्किङ्किणीकं नितम्बे
सव्याभीरीचुम्बितप्रान्तबाहुर्
गोपीनाथः पीनवक्षा गतिर्नः
(४)
गुञ्जामुक्तारत्नगाङ्गेयहारैर्
माल्यैः कण्ठे लम्बमानैः क्रमेण
पीतोदञ्चत्कञ्चुकेनाञ्चितश्रीर्
गोपीनाथः पीनवक्षा गतिर्नः
(५)
श्वतोष्णीषः श्वेतसुश्लोकधौतः
सुश्वेतस्रक्द्वित्रशः श्वेतभूषः
चुम्बन्शर्यामङ्गलारात्रिके हृद्
गोपीनाथः पीनवक्षा गतिर्नः
(६)
श्रीवत्सश्रीकौस्तुभोद्भिन्नरोम्णां
वर्णैः श्रीमान्यश्चतुर्भिः सदेष्टः
दृष्टः प्रेम्णैवातिधन्यैरनन्यैर्
गोपीनाथः पीनवक्षा गतिर्नः
(७)
तापिञ्छः किं हेमवल्लीयुगान्तः
पार्श्वद्वन्द्वोद्द्योतिविद्युद्घनः किम्
किं वा मध्ये राधयोः श्यामलेन्दुर्
गोपीनाथः पीनवक्षा गतिर्नः
(८)
श्रीजाह्नव्या मूर्तिमान्प्रेमपुञ्जो
दीनानाथान्दर्शयन्स्वं प्रसीदन्
पुष्णन्देवालभ्यफेलासुधाभिर्
गोपीनाथः पीनवक्षा गतिर्नः
(९)
गोपीनाथाष्टकं तुष्टचेतास्
तत्पदाब्जप्रेमपुष्णीभविष्णुः
योऽधीते तन्मन्तुकोटीरपश्यन्
गोपीनाथः पीनवक्षा गतिर्नः
UPDATED: January 29, 2017