Ambudanjanendra Nila Nindi #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ A
Song Name: Ambudanjanendra Nila
Official Name: Sri Krsna Candrastakam
Author: Krsnadasa Kaviraja
Book Name: Govinda Lilamrta (Suka Sari Stava Lila)
Language: Sanskrit
(१)
अम्बुदाञ्जनेन्द्रनीलनिन्दिकान्तिडम्बरः
कुङ्कुमोद्यदर्कविद्युदंशुदिव्यदम्बरः
श्रीमदङ्गचर्चितेन्दुपीतनाक्तचन्दनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः
(२)
गण्डताण्डवातिपण्डिताण्डजेशकुण्डलश्-
चन्द्रपद्मषण्डगर्वखण्डनास्यमण्डलः
बल्लवीषु वर्धितात्मगूढभावबन्धनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः
(३)
नित्यनव्यरूपवेशहार्दकेलिचेष्टितः
केलिनर्मशर्मदायिमित्रवृन्दवेष्टितः
स्वीयकेलिकाननांशुनिर्जितेन्द्रनन्दनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः
(४)
प्रेमहेममण्डितात्मबन्धुताभिनन्दितः
क्षौणिलग्नभाललोकपालपालिवन्दितः
नित्यकालसृष्टविप्रगौरवालिवन्दनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः
(५)
लीलयेन्द्रकालियोष्णकंसवत्सघातकस्
तत्तदात्मकेलिवृष्टिपुष्टभक्तचाटकः
वीर्यशीललीलयात्मघोषवासिनन्दनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः
(६)
कुञ्जरासकेलिसीधुराधिकादितोषणस्
तत्तदात्मकेलिनर्मतत्तदालिपोषणः
प्रेमशीलकेलिकीर्तिविश्वचित्तनन्दनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः
(७)
रासकेलिदर्शितात्मशुद्धभक्तिसत्पथः
स्वीयचित्ररूपवेशमन्मथालिमन्मथः
गोपिकासु नेत्रकोणभाववृन्दगन्धनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः
(८)
पुष्पचायिराधिकाभिमर्शलब्धितर्षितः
प्रेमवाम्यरम्यराधिकास्यदृष्टिहर्षितः
राधिकोरसीह लेप एष हारिचन्दनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः
(९)
अष्टकेन यस्त्वनेन राधिकासुवल्लभं
संस्तवीति दर्शनेऽपि सिन्धुजादिदुर्लभम्
तं युनक्ति तुष्टचित्त एष घोषकानने
राधिकाङ्गसङ्गनन्दितात्मपादसेवने
UPDATED: September 26, 2015