Skip to main content

Aksaram Paramam Brahma

·281 words·2 mins
kksongs
Author
kksongs
Un-official KKsongs

Aksaram Paramam Brahma
#

http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                www.kksongs.org

Home Song Lyrics A

Song Name: Aksaram Paramam Brahma

Official Name: Krsnastotram; Canto 4 Chapter 21 Verses 178 to 198

Author: Vyasadeva

Book Name: Brahma Vaivarta Purana

Language: Sanskrit

LYRICS:

(१)

अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम्

गुणातीतं निराकारं स्वेच्छामयमनन्तजम् [१७८]

(२)

भक्तध्यानाय सेवायै नानारूपधरं वरम्

शुक्लरक्तपीतश्यामं युगानुक्रमणेन च [१७९]

(३)

शुक्लतेजःस्वरूपं च सत्ये सत्यस्वरूपिणम्

त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा [१८०]

(४)

द्वापरे पीतवर्णं च शोभितं पीतवाससा

कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् [१८१]

(५)

नवधाराधरोत्कृष्टश्यामसुन्दरविग्रहम्

नन्दैकनन्दनं वन्दे यशोदानन्दनं प्रभुम् [१८२]

(६)

गोपिकाचेतनहरं राधाप्राणाधिकं परम्

विनोदमुरलीशब्दं कुर्वन्तं कौतुकेन च [१८३]

(७)

रूपेणाप्रतिमेनैव रत्नभूषणभूषितम्

कन्दर्पकोटिसौन्दर्यं विभ्रतं शान्तमीश्वरम् [१८४]

(८)

क्रीडन्तं राधया सार्धं वृन्दारण्ये च कुत्रचित्

कृत्रचिन्निर्जनेऽरण्ये राधावक्षःस्थलस्थितम् [१८५]

(९)

जलक्रीडां प्रकुर्वन्तं राधया सह कुत्रचित्

राधिकाकबरीभारं कुर्वन्तं कुत्रचिद्वने [१८६]

(१०)

कुत्रचिद्राधिकापादे दत्तवन्तमलक्तकम्

राधाचवितताम्बूलं गृह्णन्तं कुत्रचिन्मुदा [१८७]

(११)

पश्यन्तं कुत्रचिद्राधां पश्यन्तीं वक्रचक्षुषा

दत्तवन्तं च राधायै कृत्वा मालां च कुत्रचित्

कुत्रचिद्राधया सार्धं गच्छन्तं रासमण्डलम् [१८८]

(१२)

राधादत्तां गले मालां दत्तवन्तं च कुत्रचित्

सार्धं गोपालिकाभिश्च विहरन्तं च कुत्रचित् [१८९]

(१३)

राधां गृहीत्वा गच्छन्तं तां विहाय च कुत्रचित्

विप्रपत्नीदत्तमन्नं भुक्तवन्तं च कुत्रचित् [१९०]

(१४)

भुक्तवन्तं तालफलं बालकैः सह कुत्रचित्

वस्त्रं गोपालिकानां च हरन्तं कुत्रचिन्मुदा [१९१]

(१५)

गायन्तं रम्यसङ्गीतं कुत्रचिद्बालकैः सह

कालीयमूर्ध्नि पादाब्जं दत्तवन्तं च कुत्रचित् [१९२]

(१६)

गवां गणं व्याहरन्तं कुत्रचिद्बालकैः सह

विनोदमुरलीशब्दं कुर्वन्तं कुत्रचिन्मुदा [१९३]

(१७)

स्तुत्वा शक्रः स्तवेन्द्रेण प्रणनाम हरिं भिया

पुरा दत्तेन गुरुणा रणे वृत्रासुरेण च [१९४]

(१८)

कृष्णेन दत्तं कृपया ब्रह्मणे च तपस्यते

इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् [१९५]

(१९)

इह प्राप्य दृढां भक्तिमन्ते दास्यं लभेत्ध्रुवम्

तेन चाङ्गिरसे दत्तं गुरवेऽङ्गिरसा मुने [१९६]

(२०)

इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत्

इह प्राप्य दृढां भक्तिमन्ते दास्यं लभेद्ध्रुवम् [१९७]

(२१)

जन्ममृत्युजराव्याधि शोकेभ्यो मुच्यते नरः

नहि पश्यति स्वप्नेऽपि यमदूतं यमालयम् [१९८]

UPDATED: June 5, 2017