Ahovalam Narasimham Gatva #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ A
Song Name: Ahovalam Narasimham Gatva
Official Name: Nrsimha Pancamrta; Chapter 47
Author: Vyasadeva
Book Name: Harivamsa Purana
Language: Sanskrit
LYRICS:
(प्रथम श्लोक)
अहोवलं नारसिंहं गत्वा रामः प्रतापवान्
नमस्कृत्वा श्री नृसिंहमस्तौषीकमला पतिम्
(१)
गोविन्द केशव जनार्दन वासुदेव
विश्वेश विश्व मधुसूदन विश्वरूप
श्री पद्मनाभ पुरुषोत्तम देहि दास्यं
नारायणाच्युत नृसिंह नमो नमस्ते
(२)
देवाः समस्ताः खलु योगिमुख्याः
गन्धर्वविद्याधरकिन्नरा श्च
यपादमूलं सततं नमन्ति
तं नारसिंहं शरणं गतोऽस्मि
(३)
वेदान्समस्तान्खलु शास्त्रगर्भान्
विद्यां बलं कीर्तिमतीं च लक्ष्मीम्
यस्य प्रसादापुरुषा लभन्ते
तं नारसिंहं शरणं गतोऽस्मि
(४)
ब्रह्मा शिवस्त्वं पुरुषोत्तमश्च
नारायणोऽसौ मरुतां पतिश्च
चन्द्रार्क वाय्वग्नि मरुद्गणाश्च
त्वमेव तं त्वां सततं नतोऽस्मि
(५)
स्वप्नेऽपि नित्यं जगतामशेषं
स्रष्टा च हन्ता विभुर प्रमेयः
त्राता त्वमेक स्त्रिविधो विभिन्नः
तं त्वां नृसिंहं सततं नतोऽस्मि
(अन्तिं श्लोक)
इति स्तुत्वा रघुश्रेष्ठः
पूजयामास तं हरिम्
पुष्पवृष्टिः पपाताशु
तस्य देवस्य मूर्धनि
राघवेण कृतं स्तोत्रं
पञ्चामृत मनुत्तमम्
पठन्ति ये द्विजवराः
तेषां स्वर्गस्तु शाश्वतः
UPDATED: November 10, 2015