Acyutam Kesavam Rama Narayanam #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ A
Song Name: Acyutam Kesavam Rama Narayanam
Official Name: Acyutastakam
Author: Adi Sankaracarya
Book Name: None
Language: Sanskrit
LYRICS:
(१)
अच्युतं केशवं राम नारायणं
कृष्ण दामोदरं वासुदेवं हरिम्
श्रीधरं माधवं गोपीकावल्लभं
जानकीनायकं रामचन्द्रं भजे
(२)
अच्युतं केशवां सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम्
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दनं सन्दधे
(३)
विष्णवे जिष्णवे शङ्खिने चक्रिणे
रुक्मिणीरागिणे जानकीजानये
वल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः
(४)
कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवार्जित श्रीनिधे
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक
(५)
राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्यभुपुण्यताकारणः
लक्ष्मणेनान्वितो वानरैः सेवितो
ऽगस्त्यसम्पुजितो राघवः पातु माम्
(६)
धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां
केशिहा कंसहृद्वंशिकावादकः
पूतनाकोपकः सुरजा खेलनो
बाल गोपालकः पातु मां सर्वदा
(७)
विद्युदद्योतव्न्प्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहं
वन्यया मालया शोभितोरस्थलं
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे
(८)
कुञ्चितैः कुन्तलैर्भ्रोजमानाननं
रत्नमौलिं लसत्कुण्डलं गण्डयोः
हारकेयुरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे
UPDATED: October 9, 2015